Enter your Email Address to subscribe to our newsletters

लखनऊ, २० सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः २१ तथा २२ सेप्टेम्बरमासयोः उत्तरप्रदेशस्य द्विदिवसीययात्रायां भविष्यति। आगामी उत्तरप्रदेशविधानसभानिर्वाचनं दृष्ट्वा भाजपाध्यक्षस्य यात्रा महत्त्वपूर्णा मन्यते। नितिननवीनः २१ सेप्टेम्बरमासे मेरठं प्राप्स्यति। द्विदिवसीयप्रवासस्य अवधौ सः निर्वाचनसज्जतां सम्बध्य विविधासु सङ्गठनात्मकसभासु, सार्वजनिक-कार्यक्रमेषु तथा युवासम्मेलने भागं ग्रहीष्यति। अपि च सः ऐतिहासिकस्थलेषु प्रमुखमन्दिरेषु च दर्शनं कृत्वा आशीर्वादं प्राप्स्यति।
भाजपाकार्यालयात् प्राप्तविवरणानुसारं २१ सेप्टेम्बरमासे भाजपाध्यक्षः नितिननवीनः मेरठं प्राप्य सर्वप्रथमं इण्डियन नेशनल आर्मी शहीद स्मारके उपवने च अमरबलिदानिभ्यः श्रद्धासुमनानि अर्पयिष्यति। तदनन्तरं पूर्वाह्णे ११:३० वादने स्वामीविवेकानन्द-सुभारती-विश्वविद्यालये आयोजितं विशालं ‘युवासम्मेलनम्’ सम्बोधयिष्यति। मध्याह्ने १:४५ वादने सः सुभारती-विश्वविद्यालये एव पश्चिमक्षेत्रस्य शक्तिकेन्द्रसम्मेलनं सम्बोधयिष्यति। अपराह्णे भाजपाध्यक्षः नितिननवीनः पश्चिमक्षेत्रस्य पूर्वपदाधिकारिभिः, सांसदैः, विधायकैः प्रमुखकार्यकर्तृभिश्च सह विशेषसभां कृत्वा निर्वाचनसज्जतायाः अन्तिमरूपं निर्धारयिष्यति।
द्वितीयदिने भाजपाध्यक्षः मेरठे क्षेत्रस्य प्रबुद्धजनैः समाजस्य विशिष्टनागरिकैश्च सह संवादं करिष्यति। ततः सः मेरठस्य ऐतिहासिके औघड़नाथमन्दिरे दर्शनपूजनं करिष्यति। अनन्तरं सः सहारनपुरं गत्वा पक्षस्य एकस्य कार्यकर्तुः गृहे भोजनं करिष्यति। सहारनपुरे मध्याह्ने २:१५ वादने पश्चिमक्षेत्रस्य पूर्वसांसदैः विधायकैश्च सह संवादं करिष्यति। ततः प्रदेशस्य क्षेत्रस्य च पदाधिकारिभिः, जनपदाध्यक्षैः, जनपद-प्रभारिभिः तथा जनपदमहामन्त्रिभिश्च सह सभां कृत्वा निर्वाचनरणनीतिविषये विचारविमर्शं करिष्यति। सायंकाले सिद्धपीठे शाकुम्भरीदेवीमन्दिरे भगवत्याः पूजार्चनां करिष्यति।
Hindusthan Samachar / Divya Ranjan