नेपालस्य विदेशमन्त्री शिशिरखनालः अद्य सायं न्यूयॉर्कं प्रति प्रस्थास्यति।
काठमांडूः, 20 सितंबरमासः (हि.स.)। नेपालस्य विदेशमन्त्री शिशिरखनालः संयुक्तराष्ट्रमहासभायाः ८१ तमे सत्रे भागं ग्रहीतुं रविवासरे सायं न्यूयॉर्कं प्रति प्रस्थास्यति। तेन सह नेपालीप्रतिनिधिमण्डलमपि अमेरिकादेशं प्रति गमिष्यति। खनालः प्रतिनिधिमण्डलश्च
नेपाल के विदेश मंत्री शिशिर खनाल


काठमांडूः, 20 सितंबरमासः (हि.स.)।

नेपालस्य विदेशमन्त्री शिशिरखनालः संयुक्तराष्ट्रमहासभायाः ८१ तमे सत्रे भागं ग्रहीतुं रविवासरे सायं न्यूयॉर्कं प्रति प्रस्थास्यति। तेन सह नेपालीप्रतिनिधिमण्डलमपि अमेरिकादेशं प्रति गमिष्यति। खनालः प्रतिनिधिमण्डलश्च रविवासरे सायं षड्वादने न्यूयॉर्कं प्रति प्रस्थास्यतीति सूचना तस्य प्रेसपरामर्शकेन जगदीश्वरपाण्डे इत्यनेन प्रदत्ता।

नेपालस्य विदेशमन्त्रालयस्य अनुसारं खनालः संयुक्तराष्ट्रमहासभायाः उच्चस्तरीयसत्रस्य समये विभिन्नेषु उच्चस्तरीयेषु उपवेशनेषु मन्त्रिस्तरीयेषु कार्यक्रमेषु च भागं ग्रहीष्यति। अस्मिन् क्रमे सः स्वसमकक्षैः विभिन्नदेशानां वरिष्ठाधिकारिभिश्च सह द्विपक्षीयोपवेशनानि अपि करिष्यति।

तत्रैव नेपालस्य प्रधानमन्त्री बालेंद्रशाहः चतुर्दशसदस्यीयस्य नेपालीप्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् २२ सितम्बर् दिनाङ्के अमेरिकादेशं प्रति प्रस्थास्यति। प्रधानमन्त्री शाहः २४ सितम्बर् दिनाङ्के संयुक्तराष्ट्रमहासभायां सम्बोधनं करिष्यति।

संयुक्तराष्ट्रमहासभायाः ८१ तमे सत्रस्य उच्चस्तरीयखण्डे विश्वस्य विभिन्नदेशानां राष्ट्राध्यक्षाः, शासनप्रमुखाः वरिष्ठाः सर्वकारीयप्रतिनिधयश्च भागं गृह्णन्ति। अस्मिन् क्रमे प्रमुखेषु अन्ताराष्ट्रियविषयेषु वैश्विकेषु च आव्हानेषु चर्चा भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani