Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० सेप्टेम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः २१ तः २३ सेप्टेम्बरपर्यन्तं गुजरातराज्यस्य यात्रां करिष्यति।
राष्ट्रपतिसचिवालयस्य अनुसारं त्रिदिवसीययात्रायाः अवधौ सा २२ सेप्टेम्बरमासे केवडियास्थिते एकतानगरे ७२तमं राष्ट्रियचलचित्रपुरस्कारं प्रदास्यति। ततः २३ सेप्टेम्बरमासे वडोदरायां महाराजासयाजीराव-विश्वविद्यालयस्य, बडोदाया: ७५तमे वार्षिकदीक्षान्तसमारोहे भागं ग्रहीष्यति। तस्मिन्नेव दिने सा ब्रह्माकुमारीसंस्थायाः ‘विश्वस्य नव-निर्माणाय आध्यात्मिकजागरणम्’ इति अभियानस्य शुभारम्भं करिष्यति तथा वडोदरायां ‘ग्लोबल स्पिरिचुअल पैलेस’ इति विश्रामकेन्द्रस्य उद्घाटनं करिष्यति।
तस्मिन् अवसरे राष्ट्रपतिः ब्रह्माकुमारी-संस्थायाः नडियाद्-केन्द्रस्य ‘विकसित-भारताय युवाः—राष्ट्रनिर्माणाय आन्तरिक-शक्तेः जागरणम्’ इति अभियानस्य अपि आभासीयमाध्यमेन शुभारम्भं करिष्यति।
Hindusthan Samachar / Divya Ranjan