Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २० सेप्टेम्बरमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् सोमवासरे यूपीएएसआई-चाय-अनुसन्धान-प्रतिष्ठानस्य शताब्दी-सम्मेलने भागं ग्रहीतुं तमिलनाडुराज्यस्य यात्रां करिष्यति।
उपराष्ट्रपतिसचिवालयस्य अनुसारं सः नीलगिरिजनपदस्य कुन्नूरे यूपीएएसआई (युनाइटेड प्लान्टर्स् एसोसिएशन ऑफ साउदर्न इण्डिया) चाय-अनुसन्धान-प्रतिष्ठानस्य (यूपीएएसआई-टीआरएफ) शताब्दी-सम्मेलने मुख्यातिथिरूपेण उपस्थितः भविष्यति।
यूपीएएसआई दक्षिणभारतस्य चाय-उद्योगस्य प्रमुखं वैज्ञानिक-अनुसन्धान-संस्थानम् अस्ति। अस्य स्थापना १९२६ तमे वर्षे अक्टोबर-मासे गुडालूरे चाय-प्रायोगिक-केन्द्ररूपेण अभवत्।
Hindusthan Samachar / Divya Ranjan