Enter your Email Address to subscribe to our newsletters

लखनऊ, २० सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः रविवासरे उत्तरप्रदेश-आरक्षी-नियुक्ति-प्रोन्नति-मण्डलेन चयनितेभ्यः ९१२ अभ्यर्थिभ्यः नियुक्तिपत्राणि वितरितवान्।
लोकभवने आयोजितं कार्यक्रमं सम्बोधयन् मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् यदा कस्यचित् अभ्यर्थिनः चयनं शुचितापूर्णया पारदर्शितया च भवति, तदा एतत् केवलम् एकस्य व्यक्तेः परिवारस्य कृते एव न, अपि तु शासनस्य सामान्यनागरिकं च प्रति विश्वासस्य प्रतीकमपि भवति।
सः अवदत् यत् २०१७ तमे वर्षे पूर्वं सः उत्तरप्रदेशस्य व्यवस्थां समीपतः दृष्टवान् आसीत् तथा तस्याः स्थितिम् अनुभूतवान् अपि। नियुक्तिप्रक्रियायाः विसङ्गतिनां कारणेन तस्मिन् समये युवकेषु निराशां हताशां च अनुभूतवन्तः। तस्मिन् समये उत्तमकार्यं कर्तुम् इच्छाशक्तेः अभावः आसीत् तथा भ्रातृपक्षपातः स्वजनपक्षपातश्च सम्पूर्णं व्यवस्थातन्त्रं ग्रस्तवान् आसीत्।
मुख्यमन्त्री अवदत् यत् यदा नियुक्तिप्रक्रियायां विसङ्गतयः भवन्ति, तदा विश्वासः कथं भवेत्। विज्ञापनं प्रकाशितम् एव सति प्रत्येकं युवानः मनसि एषा भावना जायते स्म यत् प्रार्थनां विना, लेनदेनं विना च नियुक्ति: पूर्णा न भविष्यति।
मुख्यमन्त्री योगी अवदत् यत् पूर्वं परीक्षायाः शुचितां प्रति प्रश्नाः उत्थापिताः भवन्ति स्म। प्रश्नपत्रप्रसारणस्य प्रकरणानि पृथगेव भवन्ति स्म। उत्तरप्रदेश-आरक्षकविभागे तु एतादृशी अपकीर्तिः आसीत् यत् परीक्षा कश्चित् ददाति स्म, नियुक्तिपत्रं तु अन्यः प्राप्नोति स्म। ये आवेदनकर्तारः एव न आसन्, तेभ्यः नियुक्तिपत्राणि वितीर्यन्ते स्म। ये योग्याः आवेदनकर्तारः आसन्, ते तु बहिः निष्कासिताः भवन्ति स्म। तेषां प्रकरणेषु दीर्घकालीन्यः अन्वेषणप्रक्रियाः अभवन्, किन्तु परिणामः शून्यमेव आसीत्।
सः अवदत् यत् २०१७ तमे वर्षे सत्तायाम् आगत्य वयं निश्चितवन्तः यत् नियुक्तिप्रक्रियायां सुधारं करिष्यामः। ये केऽपि मण्डलाः आयोगाः वा आसन् अथवा शिक्षाक्षेत्रस्य विभिन्नाः विभागाः आसन्, तेषां त्रयाणाम् एकीकरणं कृत्वा शिक्षा-आयोगस्य गठनं कृतम्।
मुख्यमन्त्री अवदत् यत् यदा वयं योग्याभ्यर्थिनां चयनं कुर्मः, तदा कथं परिवर्तनं भवति, तस्य उदाहरणम् उत्तरप्रदेशे विगतेषु सार्धनववर्षेषु दृष्टं परिवर्तनम् अस्ति।
सः अवदत् यत् प्रदेशः स एव अस्ति, वयं पृथक् किमपि नीत्वा न आगतवन्तः, पदानि यथावत् सन्ति। एतदपि न यत् सः गोरखपुरात्, दिल्लीत: वा अन्यस्मात् प्रदेशात् अधिकारिणः आनीय तेषां माध्यमेन प्रदेशस्य सञ्चालनं करोति। मानवबलं तदेव अस्ति, किन्तु जनानां दृष्टिकोणे परिवर्तनम् आगतम् अस्ति।
Hindusthan Samachar / Divya Ranjan