Enter your Email Address to subscribe to our newsletters

‘साहसं, सेवा, सङ्कल्पश्च’ इत्यनेन भावेन रेलसुरक्षाबलस्य कार्मिकैः सुरक्षायाः, स्वास्थ्यस्य, स्वच्छतायाः पर्यावरणसंरक्षणस्य च सन्देशः प्रदत्तः
वाराणसी, २० सितम्बरमासः। उत्तरप्रदेशस्य वाराणसीजनपदे रेलयात्रिकाणां सुरक्षां, रेलसम्पत्तेः संरक्षणं तथा रेलव्यवस्थायां सुरक्षायाः विश्वासं सुदृढीकुर्वतः रेलसुरक्षाबलस्य ४२तमः स्थापना दिवसः रविवासरे बरेका परिसरे उत्साहेन उल्लासेन च आचरितः।
स्थापनादिवसस्य अवसरं प्राप्य रेलसुरक्षाबलेन बरेका परिसरे विविधाः कार्यक्रमाः आयोजिताः। अस्मिन् अवसरे रेलसुरक्षाबलस्य अधिकारिभिः बलसदस्यैश्च ‘एकतायै धावनम्’, योगकार्यक्रमः, वृक्षारोपणं तथा ‘स्वच्छता एव सेवा’ अभियानस्य अन्तर्गतं स्वच्छतागतिविधिषु उत्साहपूर्वकं सहभागिता कृता। ‘एकतायै धावनम्’ इत्यस्य माध्यमेन एकतायाः, अनुशासनस्य राष्ट्रसेवायाश्च सन्देशः प्रदत्तः। योगकार्यक्रमस्य माध्यमेन स्वस्थजीवनशैल्याः शारीरिकमानसिकस्वास्थ्यस्य च महत्त्वं रेखाङ्कितम्।
पर्यावरणसंरक्षणस्य प्रति स्वकीयां प्रतिबद्धतां व्यक्तीकुर्वन्तः रेलसुरक्षाबलस्य अधिकारिणः जवानाश्च बैरकपरिसरे वृक्षारोपणम् अकुर्वन्। अस्मिन् अवसरे उपस्थितैः रेलसुरक्षाबलस्य सदस्यैः अधिकाधिकानां वृक्षाणां रोपणस्य तेषां संरक्षणस्य च सङ्कल्पः कृतः। स्थापना दिवसस्य कार्यक्रमस्य समये ‘स्वच्छता एव सेवा’ अभियानस्य अन्तर्गतं बैरकपरिसरे स्वच्छताभियानं सञ्चाल्य स्वच्छताकार्यं कृतम्। अस्य माध्यमेन स्वच्छपरिसरस्य, स्वस्थजीवनस्य स्वच्छपर्यावरणस्य च विषये जागरूकतायाः सन्देशः प्रदत्तः।
उल्लेखनीयं यत् २० सितम्बर १९८५ तमे वर्षे रेलसुरक्षाबलाय सङ्घस्य सशस्त्रबलस्य दर्जा प्रदत्तः, तेन सह अस्य वर्तमानस्वरूपं प्राप्तम्। रेलसुरक्षाबलस्य अधिनियमः १९५७ इत्यस्मिन् संशोधनानन्तरं एषः प्रावधानः २० सितम्बर १९८५ तः प्रभावीरूपेण प्रवृत्तः। रेलसुरक्षाबलस्य दायित्वं रेलसम्पत्तेः सुरक्षया सह यात्रिकाणां यात्रीक्षेत्रस्य च सुरक्षया अपि सम्बद्धम् अस्ति।
स्थापनादिवसस्य कार्यक्रमे प्रधानः मुख्यसुरक्षायुक्तः, सहायकः सुरक्षायुक्तः, रेलसुरक्षाबलस्य निरीक्षकाः तथा बलस्य सदस्याः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani