समाजकल्याणविभागस्य उपक्रमः – यूपीपीएससी २०२५ इत्यस्य मुख्यपरीक्षायां सफलाभ्यर्थिनां २३ सितम्बरतः भविष्यति प्रतिरूपसाक्षात्कारः
आईएएस पीसीएस अधिकारिभिः विषयविशेषज्ञैश्च साक्षात्कारस्य सिद्धतायै मार्गदर्शनम् लखनऊ, 20 सितंबरमासः (हि.स.)। उत्तरप्रदेशलोकसेवायोगस्य २०२५ तमस्य वर्षस्य मुख्यपरीक्षायां सफलानाम् अभ्यर्थिनाम् आगामीसाक्षात्काराय सम्यक् सिद्धतां कारयितुम् समाजकल्याणवि
सांकेतिक फाेटाे


आईएएस पीसीएस अधिकारिभिः विषयविशेषज्ञैश्च साक्षात्कारस्य सिद्धतायै मार्गदर्शनम्

लखनऊ, 20 सितंबरमासः (हि.स.)। उत्तरप्रदेशलोकसेवायोगस्य २०२५ तमस्य वर्षस्य मुख्यपरीक्षायां सफलानाम् अभ्यर्थिनाम् आगामीसाक्षात्काराय सम्यक् सिद्धतां कारयितुम् समाजकल्याणविभागः २३ सितम्बरतः विशेषं प्रतिरूपसाक्षात्कारकार्यक्रमम् आयोजयितुं सज्जः अस्ति। अयं कार्यक्रमः बहुषु चरणेषु सञ्चालितः भविष्यति। अस्य माध्यमेन अभ्यर्थिभ्यः साक्षात्कारस्य सूक्ष्मतासु, व्यक्तित्वप्रस्तुतौ तथा आत्मविश्वासेन प्रश्नानाम् उत्तरप्रदाने च अभ्यासः कारयिष्यते। प्रतिरूपसाक्षात्कारस्य आयोजनं गोमतीनगरे स्थिते छत्रपतिशाहूजीमहाराजशोधप्रशिक्षणसंस्थाने भागिताभवने भविष्यति।

समाजकल्याणविभागस्य उपनिदेशकः आनन्दकुमारसिंहः रविवासरे अवदत् यत् समाजकल्याणविभागेन सञ्चाल्यमाने छत्रपतिशाहूजीमहाराजशोधप्रशिक्षणसंस्थाने भागिताभवने लखनऊनगरे तथा प्रदेशस्य अन्येषु परीक्षापूर्वप्रशिक्षणकेन्द्रेषु प्रशिक्षणं प्राप्नुवन्तः अभ्यर्थिनः, मुख्यमन्त्रिणः अभ्युदययोजनायाः अभ्यर्थिनः तथा यूपीपीएससी २०२५ तमस्य वर्षस्य मुख्यपरीक्षायां सफलाः सर्ववर्गीयाः इच्छुकाः अभ्यर्थिनः च अस्मिन् निःशुल्के प्रतिरूपसाक्षात्कारकार्यक्रमे सम्मिलितुं शक्नुवन्ति।

सः अवदत् यत् प्रतिरूपसाक्षात्कारस्य समये उत्तरप्रदेशप्रशासनप्रबन्धनअकादम्या सह सम्बद्धाः आईएएस पीसीएस अधिकारिणः तथा विषयविशेषज्ञाः अभ्यर्थिनां मार्गदर्शनं करिष्यन्ति। ते साक्षात्कारस्य सिद्धतायाः रणनीतिविषये, प्रश्नानाम् प्रभाविप्रतिवचनप्रदाने, व्यक्तित्वप्रस्तुतौ, सञ्चारकौशले तथा आत्मविश्वासस्य संरक्षणे च सम्बद्धान् महत्त्वपूर्णान् सुझावान् प्रदास्यन्ति। अनेन अभ्यर्थिनः स्वकीयाः न्यूनताः ज्ञातुं तासां च सुधारं कर्तुं अवसरं प्राप्स्यन्ति।

उल्लेखनीयं यत् समाजकल्याणविभागस्य पक्षतः सम्पूर्णप्रदेशे अष्ट आवासीयप्रशिक्षणकेन्द्राणि सञ्चालितानि सन्ति। अत्र अभ्यर्थिभ्यः निःशुल्केन आवासीयप्रशिक्षणेन सह भोजनालयव्यवस्था, पुस्तकालयः, अन्तर्जालसुविधा, परीक्षाशृङ्खला, अध्ययनसामग्री, मनोरञ्जनव्यवस्था, क्रीडासुविधा तथा व्यायामशालादिसुविधाः अपि प्रदीयन्ते।

Hindusthan Samachar / Dheeraj Maithani