देवभूमेः लोकसंस्कृतिः अस्माकं परिचयः, नवसन्ततिं च मूलैः सह संयोजयितुं सामूहिकं दायित्वम् - मुख्यमन्त्री
बद्रीनाथः, 20 सितंबरमासः(हि.स.)। श्रीबदरीनाथधाम्नः पर्यटकागमनप्राङ्गणे भारतीयसेनया चमोलीजनपदप्रशासनेन च संयुक्ततत्त्वावधानेन ‘ऑपरेशन सद्भावना’ इत्यन्तर्गतं आयोजितस्य द्विदिवसीयस्य ‘देवभूमि सांस्कृतिकमहोत्सवः २०२६’ इत्यस्य रविवासरे समापनम् अभवत्।
कार्यक्रम


बद्रीनाथ धाम


बद्रीनाथः, 20 सितंबरमासः(हि.स.)।

श्रीबदरीनाथधाम्नः पर्यटकागमनप्राङ्गणे भारतीयसेनया चमोलीजनपदप्रशासनेन च संयुक्ततत्त्वावधानेन ‘ऑपरेशन सद्भावना’ इत्यन्तर्गतं आयोजितस्य द्विदिवसीयस्य ‘देवभूमि सांस्कृतिकमहोत्सवः २०२६’ इत्यस्य रविवासरे समापनम् अभवत्। ‘अस्माकं विरासत्, अस्माकं भविष्यत्’ इति विषयवस्तुम् आधृत्य आयोजिते महोत्सवे मुख्यमन्त्री पुष्करसिंहधामी मुख्यातिथिरूपेण सहभागं कृतवान्। अस्मिन्नवसरे मुख्यमन्त्रिणा विभिन्नसांस्कृतिकप्रतियोगितानां विजेतृभ्यः उपविजेतृभ्यश्च प्रतिभागिभ्यः पुरस्कारान् प्रदाय सम्मानिताः कृताः।

मुख्यमन्त्री ततः पूर्वं बामणीग्रामं गत्वा नन्दाष्टम्याः पावने अवसरे आयोजिते उत्सवे ग्रामवासिभिः सह सहभागं कृतवान्। सः ग्रामवासिभ्यः नन्दाष्टम्याः शुभकामनाः प्रदाय देवभूमेः समृद्धानां लोकपरम्पराणां सांस्कृतिकविरासतश्च संरक्षणस्य संवर्धनस्य च महत्त्वे बलं दत्तवान्। मुख्यमन्त्रिणा महोत्सवपरिसरे स्थापितानां स्थानीयोत्पादानां, महिलास्वयंसहायतासमूहानां, हस्तशिल्पानां, पारम्परिकव्यञ्जनानां तथा अन्येषां प्रदर्शनीकक्षाणां निरीक्षणं कृतम्। सः महिलास्वयंसहायतासमूहैः निर्मीयमाणानां स्थानीयोत्पादानां पर्वतीयव्यञ्जनानां च विषये सूचनां प्राप्तवान् तथा स्थानीयोत्पादेभ्यः विपण्यवसरं प्रदातुं क्रियमाणानां प्रयासानां प्रशंसां कृतवान्।

मुख्यमन्त्री अवदत् यत् स्थानीयोत्पादानां पर्यटनस्य च समन्वयेन सीमावर्तिक्षेत्रेषु आजीविकायाः स्वरोजगारस्य च नूतनाः अवसराः सृज्यन्ते। मुख्यमन्त्रिणा भारतीयसेनया आयोजितस्य सैन्यप्रदर्शनस्य अपि अवलोकनं कृतम् तथा अत्याधुनिकानां शस्त्राणां सैन्योपकरणानां च विषये सूचनां प्राप्ता। सः अवदत् यत् एतादृशं प्रदर्शनं युवानः भारतीयसेनायाः कार्यप्रणाल्या परिचाययितुं, तेषु राष्ट्रसेवायाः देशभक्तेः च भावनां सुदृढां कर्तुं च माध्यमं भवति।

मुख्यमन्त्री समारोहं सम्बोधयन् भगवान् बदरीविशालस्य पावनधाम्नि आयोजिते अस्मिन् सांस्कृतिकमहोत्सवे सेनायाः वीरजवानानाम्, अधिकारिणाम्, स्थानीयजनानाम्, युवानाम्, विद्यार्थिनाम्, कलाकाराणां श्रद्धालूनां च स्वागतं अभिनन्दनं च कृतवान्। सः अवदत् यत् देवभूमेः उत्तराखण्डस्य आत्मा तस्याः लोकसंस्कृतौ निवसति।

अस्मिन्नवसरे सेनामध्यकमानस्य जीओसी लेफ्टिनेन्टजनरल् अनिन्द्यसेनगुप्तः, उत्तरभारतक्षेत्रस्य जीओसी लेफ्टिनेन्टजनरल् डी. जी. मिश्रः, राज्यमन्त्री हरकसिंहः, ब्रिगेडियर् गौरवबत्रा, बदरीनाथकेदारनाथमन्दिरसमितेः उपाध्यक्षः ऋषिप्रसादसती, चारधामसम्बन्धीपरामर्शदाता माधवप्रसादसेमवालः, भारतीयजनतापक्षस्य जिलाध्यक्षः गजपालसिंहबर्त्वालः, जिलासहकारीवित्तकोषस्य अध्यक्षः गजेन्द्रसिंहरावतः, भारतीयजनतापक्षस्य जिलामहामन्त्री विनोदकनवासी तथा अरुणमैठाणी, जिलाधिकारी गौरवकुमारः, पुलिसाधीक्षकः सुरजीतसिंहपंवारः सहिताः भारतीयसेनायाः अधिकारिणः, जनप्रतिनिधयः, स्थानीयजनाः, युवानः, विद्यार्थिनः तथा विभिन्नेभ्यः क्षेत्रेभ्यः समागताः अतिथयः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani