आईआईटी-रुड़की-दीक्षान्तसमारोहः - द्वितीयदिने १४२४ छात्रछात्राभ्यः उपाधयः प्रदत्ताः
दीक्षान्तसमारोहः विद्यार्थिनां वर्षाणां परिश्रमस्य उत्सवः : हर्षवर्धनचीतले हरिद्वारम्, २० सेप्टेम्बरमासः (हि.स.)। आईआईटी-रुड़की-द्विदिवसीय-दीक्षान्तसमारोहस्य रविवासरे समापनम् अभवत्। द्वितीयदिने १४२४ छात्रछात्राभ्यः उपाधयः प्रदत्ताः। एतेषु ५१८ पीएच
रुड़की आईआईटी दीक्षांत समारोह मंच पर अतिथि


दीक्षान्तसमारोहः विद्यार्थिनां वर्षाणां परिश्रमस्य उत्सवः : हर्षवर्धनचीतले

हरिद्वारम्, २० सेप्टेम्बरमासः (हि.स.)। आईआईटी-रुड़की-द्विदिवसीय-दीक्षान्तसमारोहस्य रविवासरे समापनम् अभवत्। द्वितीयदिने १४२४ छात्रछात्राभ्यः उपाधयः प्रदत्ताः। एतेषु ५१८ पीएचडी-विद्यार्थिनः, त्रयः शोधार्थिनः तथा ९०३ एमटेक्-विद्यार्थिनः आसन्। प्रथमदिने १२७७ विद्यार्थिभ्यः उपाधयः प्रदत्ताः आसन्। एवं द्वयोः दिनयोः मध्ये २७०१ विद्यार्थिनः उपाधीः प्राप्तवन्तः।

द्वितीयदिवसीयसमारोहस्य शुभारम्भः पारम्परिकया शोभायात्रया अभवत्। समारोहे मुख्यातिथिरूपेण हीरो मोटोकॉर्प-संस्थायाः अध्यक्षः हर्षवर्धनचीतले तथा विशिष्टातिथिरूपेण ऑयलमैक्स एनर्जी-संस्थायाः संस्थापकः विक्रमगर्गः उपस्थितौ आस्ताम्।

हर्षवर्धनचीतले विद्यार्थिनः सम्बोधयन् अवदत् यत् दीक्षान्तसमारोहः विद्यार्थिनां वर्षाणां कठोरपरिश्रमस्य, तपस्यायाः उपलब्धीनां च उत्सवः अस्ति। आईआईटी-रुड़की-सदृशात् विश्वप्रसिद्धात् संस्थानात् शिक्षां प्राप्तवद्भ्यः विद्यार्थिभ्यः समाजस्य देशस्य च विकासे महत्त्वपूर्णयोगदानस्य अपेक्षा अस्ति। सः अवदत् यत् अधुना प्रौद्योगिकी शीघ्रं परिवर्तते, अतः विद्यार्थिभिः स्वज्ञानस्य कौशलस्य च उपयोगः नवीनानां समस्यानां समाधानाय मानवकल्याणाय च करणीयः।

विक्रमगर्गः अवदत् यत् उपाधिप्राप्तिः विद्यार्थिनां शैक्षणिकयात्रायाः अन्तः न, अपि तु नूतनदायित्वस्य नूतनयात्रायाश्च आरम्भः अस्ति। सः विद्यार्थिभ्यः नवाचारस्य, अनुसन्धानस्य उद्यमितायाश्च क्षेत्रेषु अग्रे गत्वा देशस्य प्रगत्यै सक्रियभूमिकां निर्वोढुम् आह्वानं कृतवान्।

संस्थानस्य निदेशकः प्रो. के. के. पन्तः संस्थानस्य उपलब्धीनां विवरणं प्रस्तुतवान्। अस्मिन् अवसरे उपनिदेशकः प्रवीणगर्गः सहितं संस्थानस्य डीनाः, प्राध्यापकाः, अधिकारिणः, विद्यार्थिनः तेषां परिजनाश्च बहुसंख्यया उपस्थिताः आसन्। उपाधिप्राप्तेषु विद्यार्थिषु विशेषः उत्साहः उल्लासश्च दृश्यते स्म।

Hindusthan Samachar / Divya Ranjan