शेखावतोः राहुलगान्धिनं प्रति प्रहारः, उक्तवान्—उपनामधारणमात्रेण दायित्वबोधः परिपक्वता च न प्राप्यते
जोधपुरम्, २० सेप्टेम्बरमासः (हि.स.)।केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंह-शेखावतः राहुलगान्धिनं प्रति तीक्ष्णं प्रहारं कृत्वा अवदत् यत् कस्यचित् उपनाम्नः धारणमात्रेण तेन उपनाम्ना सम्बद्धा परम्परा, परिपक्वता दायित्वपूर्णं च आचरणं न प्राप्यते।
केंद्रीय मंत्री शेखावत


जोधपुरम्, २० सेप्टेम्बरमासः (हि.स.)।केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंह-शेखावतः राहुलगान्धिनं प्रति तीक्ष्णं प्रहारं कृत्वा अवदत् यत् कस्यचित् उपनाम्नः धारणमात्रेण तेन उपनाम्ना सम्बद्धा परम्परा, परिपक्वता दायित्वपूर्णं च आचरणं न प्राप्यते।

रविवासरे माध्यमप्रतिनिधिभिः सह वार्तालापे शेखावतः अवदत् यत् राहुलगान्धिना स्वदेशस्य प्रधानमन्त्रिणं प्रति यत्प्रकारेण सार्वजनिकमञ्चे अनुत्तर-दायित्वपूर्णम् आचरणं कृतम्, तत् अनुचितं निन्दनीयं च अस्ति। सः अवदत् यत् राहुलगान्धिनः पूर्वव्यवहारं दृष्ट्वा तस्य एतादृशम् आचरणं नूतनं नास्ति। शेखावतः अवदत् यत् उपनाम कस्यचित् व्यक्तेः सकाशात् अपहर्तुं शक्यते, किन्तु तेन उपनाम्ना सम्बद्धां परम्परां, परिपक्वतां दायित्वपूर्णमाचरणं च केवलं तस्य उपनाम्नः धारणमात्रेण प्राप्तुं न शक्यते।

काङ्ग्रेसद्वारा नगरनिगमस्य निर्वाचने संकरप्रौद्योगिक्याः माध्यमेन राजेन्द्र-सोलङ्की प्रत्याशी कृतः इति विषये पृष्टे शेखावतः अवदत् यत् एतत् नियमानां व्यवस्थायाश्च परिधौ अस्ति। सः अवदत् यत् काङ्ग्रेसेन सत्तायां स्थित्वा सम्भवतः एतादृशस्यैव प्रयोजनस्य कृते नियमेषु संशोधनं कृतं स्यात्। सः अवदत् यत् नगरस्य मतदातारः पूर्वमेव स्वकीयां मनोभावनां प्रकटितवन्तः। नगरनिगमस्य मण्डलाय निर्वाचिताः सदस्याः अपि स्वपक्षं स्पष्टं कृतवन्तः। अतः निर्वाचनसम्बद्धां जनसामान्यस्य निर्वाचितप्रतिनिधीनां च भावनां उपेक्षितुं न शक्यते।

शेखावतः अद्यतनकाले मिथ्यावार्तानां प्रसारणस्य प्रयत्नान् प्रति अपि काङ्ग्रेसं लक्ष्यीकृतवान्। सः अवदत् यत् द्विदिनपूर्वमपि एतादृशः प्रयासः कृतः आसीत्। रात्रौ रातानाडाथानं गत्वा तीव्रं राजनैतिकनाटकम् उत्पत्तुं प्रयासः कृतः, किन्तु प्रातःकालपर्यन्तं सः प्रयासः निष्फलः अभवत्। सः अवदत् यत् राजनैतिकवातावरणम् अनावश्यकतया उष्णीकर्तुं तथा मिथ्यावार्ताभिः दुष्प्रचारैश्च जनानां मध्ये भ्रमं जनयितुं ये प्रयासाः क्रियन्ते, ते जनसमक्षे दीर्घकालं स्थातुं न शक्नुवन्ति।

Hindusthan Samachar / Divya Ranjan