प्रदेशस्य विद्यालयेषु सितम्बरमासस्य षड्विंशतितः ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं कार्यक्रमाः आयोजयिष्यन्ते
विद्यालयेषु सेवासङ्कल्पाभियानान्तर्गतं विविधाः प्रतियोगिताः देहरादूनम्, २० सितम्बरमासः। प्रदेशस्य राजकीयेषु निजीेषु च विद्यालयेषु ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं भाषणप्रतियोगिता, चित्रकलाप्रतियोगिता, निबन्धप्रतियोगिता, रङ्गोलीप्रतियोगिता, युवासंव
मंत्री धन सिंह रावत।


विद्यालयेषु सेवासङ्कल्पाभियानान्तर्गतं विविधाः प्रतियोगिताः

देहरादूनम्, २० सितम्बरमासः। प्रदेशस्य राजकीयेषु निजीेषु च विद्यालयेषु ‘सेवासङ्कल्पाभियानस्य’ अन्तर्गतं भाषणप्रतियोगिता, चित्रकलाप्रतियोगिता, निबन्धप्रतियोगिता, रङ्गोलीप्रतियोगिता, युवासंवादः इत्यादयः विविधाः कार्यक्रमाः आयोजयिष्यन्ते। विद्यालयीशिक्षामन्त्री डॉ. धनसिंहरावतः रविवासरे विभागीयाधिकारिभ्यः अभियानस्य व्यापकस्तरे सञ्चालनस्य निर्देशान् दत्तवान्।

प्राथमिकशिक्षानिदेशालयस्य विद्यसमीक्षाकेन्द्रे आयोजितायां विभागीयसमीक्षोपवेशनायां डॉ. रावतः अवदत् यत् प्रत्येकस्मिन् विद्यालये सितम्बरमासस्य षड्विंशतितमे दिने भाषणप्रतियोगिता अष्टाविंशतितमे दिने च चित्रकलाप्रतियोगिता आयोजयिष्यते। चित्रकलाप्रतियोगितायां विद्यार्थी ‘विकसितभारतस्य’ परिकल्पनां चित्रमाध्यमेन प्रस्तुतं करिष्यन्ति। उत्कृष्टप्रतिभागिभ्यः जनपदस्तरीयासु राज्यस्तरीयासु च प्रतियोगितासु सहभागितायाः अवसरः प्रदास्यते तथा प्रशस्तिपत्रैः धनपुरस्कारैश्च सम्माननं भविष्यति।

सः अवदत् यत् बालिकानाम् अन्तर्महाविद्यालयेषु रङ्गोलीप्रतियोगिता तथा प्रत्येकस्मिन् विकासखण्डे अथवा विधानसभाक्षेत्रे युवासंवादकार्यक्रमः आयोजयिष्यते। अभियानस्य अन्तर्गतं उत्कृष्टं प्रदर्शनं कृतवद्भ्यः त्रिभ्यः जनपदेभ्यः अपि पुरस्काराः प्रदास्यन्ते।

डॉ. रावतः अवदत् यत् अक्तूबरमासस्य सप्तमे दिने प्रदेशस्य सर्वेषु राजकीयविद्यालयेषु छात्रावासेषु च ‘गढभोज’ कार्यक्रमः आयोजयिष्यते। प्रधानमन्त्रिपोषणयोजनायाः अन्तर्गतं विद्यार्थिभ्यः पर्वतीयाः स्थानीयाः च पारम्परिकव्यञ्जनाः परिवेष्यन्ते। अस्य कार्यक्रमस्य उद्देश्यं विद्यार्थिनः उत्तराखण्डस्य खानपानपरम्परया, संस्कृत्या स्थानीयोत्पादैश्च सह संयोजयितुम् अस्ति।

तेन नवनवीनीकृतेषु उच्चीकृतेषु विद्यालयेषु अस्मादेव शैक्षणिकसत्रात् कक्षाः प्रारम्भयितुं विद्यार्थिनां प्रवेशं च सुनिश्चितं कर्तुं निर्देशाः दत्ताः। आपद्भिः क्षतिग्रस्तानां विद्यालयानाम् आगणनं शीघ्रं शासनाय उपलब्धं कर्तुं तथा समग्रशिक्षायोजनायाः अन्तर्गतं विद्यार्थिभ्यः विद्यालयवेषभूषायै, पादत्राणेभ्यः, पुटकेभ्यश्च प्राप्तां धनराशिं प्रत्यक्षलाभान्तरणमाध्यमेन तेषां बैंकखातेषु प्रेषयितुमपि निर्देशः दत्तः।

मन्त्रिणा विद्यार्थिनः भारतदर्शनस्य राज्यदर्शनस्य च कार्यक्रमयोः अन्तर्गतं शैक्षणिकभ्रमणाय प्रेषयितुं प्रारम्भिकव्यवस्थाः कर्तुं निर्देशाः अपि प्रदत्ताः।

उपवेशने अपरशिक्षासचिवा विद्यालयीशिक्षा नमामिबन्सला, शिक्षामहानिदेशिका आकाङ्क्षाकोण्डे, माध्यमिकशिक्षानिदेशकः वी. पी. सिमल्टी, प्राथमिकशिक्षानिदेशकः के. एस. रावतः सहिताः विभागीयाधिकारिणः उपस्थिताः आसन्। अन्येषां जनपदानां मुख्यशिक्षाधिकारिभिः आभासीयमाध्यमेन उपवेशने सहभागः कृतः।

Hindusthan Samachar / Dheeraj Maithani