उत्तराखण्डप्रीमियरलीगे मुरादाबादस्य चतसृणां क्रिकेटक्रीडकानां चयनम्
मुरादाबादम्, 21 सितम्बरमासः (हि.स.)।उत्तराखण्डप्रीमियरलीगे मुरादाबादस्य एमपीएस क्रिकेट अकादमी तथा साई क्रिकेट अकादमी इत्येतयोः चतसृणां क्रीडकानां चयनं जातम्। दिल्लीमार्गस्थितस्य एमपीएस क्रिकेट अकादम्याः प्रशिक्षकः मिर्जा दानिश आलमः अवदत् यत् दक्षिण
उत्तराखंड प्रीमियर लीग में चयनित मुरादाबाद के चार क्रिकेट खिलाड़ी


मुरादाबादम्, 21 सितम्बरमासः (हि.स.)।उत्तराखण्डप्रीमियरलीगे मुरादाबादस्य एमपीएस क्रिकेट अकादमी तथा साई क्रिकेट अकादमी इत्येतयोः चतसृणां क्रीडकानां चयनं जातम्। दिल्लीमार्गस्थितस्य एमपीएस क्रिकेट अकादम्याः प्रशिक्षकः मिर्जा दानिश आलमः अवदत् यत् दक्षिणहस्तीयः फलन्दाजः यष्टिरक्षकश्च वैभव भट्टः पिथौरागढदलस्य पक्षतः, दक्षिणहस्तीयः फलन्दाजः लोकेशसिंहः च ऋषिकेशकिङ्ग्स् इत्यस्य पक्षतः क्रीडिष्यतः।

तथैव साई क्रिकेट अकादम्याः प्रशिक्षकः सचिनकुमारतोमरः अवदत् यत् योगितारावतः महिलावर्गे मसूरीक्वीन्स् इत्यस्य पक्षतः तथा यष्टिरक्षकफलन्दाजः दिव्यांशधवनः पुरुषवर्गे नैनीतालटाइगर्स् इत्यस्य पक्षतः क्रीडिष्यतः।

Hindusthan Samachar / Dheeraj Maithani