Enter your Email Address to subscribe to our newsletters

रायगढम्, २१ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढस्य रायगढ-जनपदे आयोजितस्य ४१ तमस्य अन्ताराष्ट्रिय-ख्यातिप्राप्तस्य चक्रधर-समारोह-२०२६ इत्यस्य सप्तम्यां सांस्कृतिकसन्ध्यायां रायपुरस्य अष्टवर्षीया कथक-नृत्याङ्गना आनन्दिता तिवारी स्वस्य विलक्षणप्रतिभया दर्शकान् मन्त्रमुग्धान् अकरोत्।
तृतीयकक्षायाः छात्रा आनन्दिता आदिशङ्कराचार्येण विरचितस्य ‘शिव-पञ्चाक्षरीस्तोत्रस्य’ कथकशैल्या भावपूर्णां प्रस्तुतिं दत्त्वा भारतीयशास्त्रीय-नृत्यस्य समृद्धां परम्परां जीवन्तां कृतवती।
लखनऊनिकायस्य शैल्यां प्रशिक्षिता आनन्दिता विगतेभ्यः चतुर्भ्यः वर्षेभ्यः गुरोः तरुणकुमारशर्मणः सान्निध्ये कत्थक-नृत्यस्य अभ्यासं कुर्वती अस्ति। शिवस्तुतेः अनन्तरं तया तीनतालस्य देशरागस्य च आधारेण तराना इति नृत्यप्रस्तुतिः प्रदर्शिता। तस्यां तस्याः लयबद्धता, भावाभिव्यक्तिः, तान्त्रिकनैपुण्यं च दर्शकैः प्रशंसितम्।
अल्पवयस्येव आनन्दिता सम्पूर्णदेशस्य १४ प्रतिष्ठितेषु राष्ट्रियमञ्चेषु स्वीयां कलां प्रदर्शितवती अस्ति। तया बालनृत्य-कलोदय-सम्मानं, कौशलकला-सम्मानं, स्वर्णनृत्यमङ्गलम्-पुरस्कारः, मङ्गलम्-महोत्सव-सम्मानं, नटवरगोपीकृष्ण-राष्ट्रियपुरस्कारः, दीप्तिमान्-सम्मानं, कलागौरवरत्न-सम्मानम् इत्यादीनि अनेकानि राष्ट्रियसम्मानानि प्राप्तानि सन्ति।
चक्रधर-समारोहे आनन्दितायाः प्रस्तुत्या एषः सन्देशः प्राप्तः यत् भारतस्य सांस्कृतिकवैभवं नववंशस्म प्रतिभावद्भिः कलाकारैः अधिकं समृद्धं गौरवशालि च भवति।
Hindusthan Samachar / Divya Ranjan