अमितशाहः मङ्गलवासरे एएनटीएफप्रमुखाणां राष्ट्रियसम्मेलनस्य उद्घाटनं करिष्यति
नवदिल्ली, 21 सितंबरमासः (हि.स.)। केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहेन मङ्गलवासरे नवदिल्ल्यां राज्येषु केन्द्रशासितप्रदेशेषु च कार्यरतानां मादकद्रव्यनिरोधककार्यबलानाम् एएनटीएफ इति प्रमुखाणां तृतीयस्य राष्ट्रियसम्मेलनस्य उद्घाटनं करि
केंद्रीय गृह मंत्री अमित शाह (फाइल फोटो)


नवदिल्ली, 21 सितंबरमासः (हि.स.)।

केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहेन मङ्गलवासरे नवदिल्ल्यां राज्येषु केन्द्रशासितप्रदेशेषु च कार्यरतानां मादकद्रव्यनिरोधककार्यबलानाम् एएनटीएफ इति प्रमुखाणां तृतीयस्य राष्ट्रियसम्मेलनस्य उद्घाटनं करिष्यते। अस्मिन् अवसरे सः लखनऊनगरे देहरादूननगरे च नार्कोटिक्स्-कण्ट्रोल्-ब्यूरो इत्यस्य नूतनक्षेत्रीयपरिसरयोः आभासीयमाध्यमेन आधारशिलां स्थापयिष्यति।

द्विदिवसीयस्य सम्मेलनस्य आयोजनं नार्कोटिक्स्-कण्ट्रोल्-ब्यूरो इत्यनेन क्रियते। अस्मिन् षट्त्रिंशत् राज्येषु केन्द्रशासितप्रदेशेषु च कार्यरताः एएनटीएफप्रमुखाः, सम्बन्धितकेन्द्रीयमन्त्रालयानां विभागानां च प्रतिनिधयः, अन्ये च हितधारकाः भागं ग्रहीष्यन्ति। गृहमन्त्रालयस्य अनुसारं सम्मेलनस्य उद्देश्यम् केन्द्रस्य राज्यैः केन्द्रशासितप्रदेशैश्च सह ‘सम्पूर्णसर्वकार’ इति दृष्टिकोणं सुदृढं कर्तुं तथा मादकद्रव्याणां तस्करीविरुद्धकार्यवाहीं प्रति नार्कोटिक्स्-कण्ट्रोल्-ब्यूरो तथा राज्येषु केन्द्रशासितप्रदेशेषु च कार्यरतानाम् एएनटीएफ-बलानां मध्ये समन्वयं अधिकं प्रभावी कर्तुम् अस्ति।

केन्द्रीयगृहमन्त्रालयेन सोमवासरे प्रकाशिते निवेदने उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे केन्द्रीयगृहमन्त्रिणः अमितशाहस्य मार्गदर्शने च सर्वकारः युवानां मादकद्रव्याणां दुष्प्रभावेभ्यः रक्षणाय अभियानरूपेण कार्यं कुर्वन् अस्ति। प्रधानमन्त्री २०४७ तमवर्षपर्यन्तं ‘विकसितभारत’ इति लक्ष्यं निर्धारितवान् अस्ति तथा च एतत् लक्ष्यं प्राप्तुं नशामुक्तभारतस्य निर्माणम् आवश्यकम् अस्ति।

सम्मेलनस्य विषयः ‘साझासंकल्पः, साझादायित्वम्’ इति निर्धारितः अस्ति। अस्मिन् नूतनतया प्रकाशितस्य मादकद्रव्यनियन्त्रणदृष्टिदस्तावेजस्य २०२६ तः २०२९ तमवर्षपर्यन्तं राज्येषु केन्द्रशासितप्रदेशेषु च एएनटीएफ-बलानां कृते निर्धारितानां लक्ष्याणां कार्याणां च प्रगतेः समीक्षा क्रियते। सम्मेलने मादकद्रव्याणां तस्कराणां दुरुपयोगस्य च निवारणाय आपूर्तिन्यूनतां, मागन्यूनतां तथा हानिन्यूनतां च सुदृढीकर्तुं रणनीतीनां विषये अपि चर्चा भविष्यति।

सम्मेलने अष्ट तान्त्रिकसत्राणि आयोजयिष्यन्ते। तेषु मादकद्रव्यनियन्त्रणाय संस्थागततन्त्रस्य सुदृढीकरणम्, मादकद्रव्यजालानां कार्टेलसमूहानां च ध्वंसः, मागन्यूनता, निवारणं पुनर्वासश्च, प्रवर्तनस्य प्रभावशीलतावर्धनम्, पूर्वगामीद्रव्याणां प्रीकर्सर इति तथा संश्लेषितमादकद्रव्याणां नियन्त्रणम्, ‘क्लैण्ड्-लैब्’ इत्याख्यानां गुप्तप्रयोगशालानां नियन्त्रणम्, अवैधकृषेः विनाशः तथा वैकल्पिकसस्यवर्धनम्, डार्कनेट् तथा क्रिप्टोमुद्राभिः सम्बद्धानां प्रकरणानां अन्वेषणम् इत्यादयः विषयाः समाविष्टाः सन्ति।

मादकद्रव्यनियन्त्रणदृष्टिदस्तावेजस्य चतसृणां रणनीतिकस्तम्भानाम् — प्रवर्तनम्, गुप्तसूचना तथा अभियानम्; पूर्वगामीद्रव्याणां संश्लेषितमादकद्रव्याणां च नियन्त्रणम्; मागन्यूनता तथा हानिन्यूनता; क्षमतानिर्माणं समन्वयश्च — अनुरूपं सम्मेलनस्य माध्यमेन आगामीत्रयवर्षाणां कृते प्रभावीरणनीतेः निर्माणे विशेषः बलः प्रदास्यते।

कार्यक्रमस्य समये मादकद्रव्यविरुद्धजागरूकतां प्रसारयितुं दूरदर्शनविज्ञापनानि अपि प्रसारयिष्यन्ते। उत्कृष्टप्रदर्शनं कृतवते राज्याय केन्द्रशासितप्रदेशाय वा एएनटीएफ-बलाय सम्मानः प्रदास्यते तथा नार्कोटिक्स्-कण्ट्रोल्-ब्यूरो इत्यस्य नूतनजालपुटस्य अपि शुभारम्भः करिष्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani