Enter your Email Address to subscribe to our newsletters

अयोध्या, २१ सेप्टेम्बरमासः (हि.स.)। वायुमारेक्शलः (निवृत्तः) जितेन्द्रमिश्रः सोमवासरे श्रीरामजन्मभूमितीर्थ-क्षेत्रन्यासस्य प्रथमः मुख्यकार्यपालना-धिकारी इति दायित्वेन कार्यं कर्तुं श्रीराममन्दिरम् आगतवान्। तत्र न्यासस्य सदस्येन मदनमोहनपाण्डेयेन तस्य स्वागतं कृतम्। नवनियुक्तः मुख्यकार्य-पालनाधिकारी जितेन्द्रमिश्रः आधि-कारिकरूपेण स्वकार्यभारं स्वीकृतवान्।
अयोध्यायाः श्रीराममन्दिरपरिसरे अधुना सः नियमितरूपेण निवसन् मन्दिरसम्बद्धानां व्यवस्थासु, मन्दिरस्य कार्यव्यवस्थायां तथा श्रद्धालुभ्यः प्रदीयमानानां सौविध्यानां निरीक्षणं करिष्यति। जितेन्द्रमिश्रः सेप्टेम्बरमासस्य प्रारम्भे श्रीराममन्दिर-न्यासस्य प्रथमः मुख्यकार्यपालनाधिकारी नियुक्तः आसीत्। अद्य आरभ्य सः अयोध्यायां नियमितरूपेण उपस्थितः भविष्यति।
Hindusthan Samachar / Divya Ranjan