Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 21 सितंबरमासः (हि.स.)।
ओडिशाविधानसभायाः आगामीसत्रात् पूर्वं सोमवासरे विधानसभापरिसरे विधानसभाध्यक्षायाः सुरमापाढीवर्यायाः अध्यक्षतायां सर्वदलीयसमुपवेशनम् आयोजितम्। समुपवेशने मुख्यमन्त्रिणा मोहनचरणमाझीवर्येण सह विभिन्नदलानां वरिष्ठनेतारः विधायकाश्च सहभागं कृतवन्तः। विधानसभायाः वर्षाकालीनसत्रं सितम्बरमासस्य द्वाविंशतितमदिनाङ्कात् प्रारभ्य अक्टोबरमासस्य तृतीयदिनाङ्कपर्यन्तं प्रचलिष्यति।
आगामिसत्रे विभिन्नविषयेषु सर्वकारस्य विपक्षस्य च मध्ये चर्चा सम्भाव्यते। विपक्षीदलैः खनिजानां तथा खनिजविकासस्य विनियमनस्य च संशोधनाधिनियमः, पाठ्यपुस्तकेषु कथितदोषाः, विधिव्यवस्थासम्बद्धाः विषयाः इत्यादयः अनेकविषयाः उत्थापयितुं सज्जता कृता अस्ति।
समुपवेशने आगामीसत्रस्य सुचारुणा, अनुशासितेन प्रभाविणा च प्रकारेण सञ्चालनसम्बन्धे विचारविमर्शः कृतः। विधानसभाध्यक्षया सुरमापाढीवर्यया सर्वेभ्यः राजनीतिकदलेभ्यः सदनस्य कार्यवाहीं सुचारुरूपेण सञ्चालयितुं सहकारितायै आग्रहः कृतः।
मुख्यमन्त्री मोहनचरणमाझीवर्यः अवदत् यत् विधानसभा जनानाम् आशानाम् आकाङ्क्षाणां लोकतान्त्रिकविश्वासस्य च प्रमुखं मञ्चम् अस्ति। स्वस्थसंसदीयपरम्पराणां सम्मानं कुर्वद्भिः सदने जनहितसम्बद्धेषु विषयेषु रचनात्मकचर्चा सार्थकविमर्शश्च सुनिश्चितुं सर्वेषां दलानां सकारात्मकसहकारिता आवश्यकी अस्ति।
सः अवदत् यत् राज्यसर्वकारः ओडिशाराज्यस्य समग्रकल्याणाय समृद्धस्य ‘विकसितओडिशा’ इत्यस्य निर्माणाय च सर्वेषां सहकारितया सम्मत्या च कार्यं कर्तुं प्रतिबद्धः अस्ति।
समुपवेशने उपाध्यक्षः भवानीशङ्करभोई, उपमुख्यमन्त्री के. वी. सिंहदेवः, संसदीयकार्यमन्त्री डॉ. मुकेशमहालिङ्गः, विधिमन्त्री पृथ्वीराजहरिचन्दनः, सर्वकारस्य मुख्यसचेतकः सरोजप्रधानः, विपक्षस्य उपनेता प्रसन्नाचार्यः, विपक्षस्य मुख्यसचेतिका प्रमिलामल्लिका, उपमुख्यसचेतकः प्रतापकिशोरदेवः तथा काङ्ग्रेसविधायकः अशोकदासः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani