Enter your Email Address to subscribe to our newsletters

मेरठम्, 21 सितंबरमासः (हि.स.)।भारतीयजनतापक्षस्य भाजपायाः राष्ट्रियाध्यक्षः नितिननवीनः सोमवासरे उत्तरप्रदेशस्य द्विदिवसीययात्रायै मेरठनगरं प्राप्तवान्। मेरठे नितिननवीनस्य स्वागताय प्रदेशभाजपाध्यक्षः पङ्कजचौधरी इत्यनेन सह उत्तरप्रदेशस्य सम्पूर्णं मन्त्रिमण्डलम् अपि प्राप्तम् अस्ति। मुख्यमन्त्री योगी आदित्यनाथः, उपमुख्यमन्त्रिणौ केशवप्रसादमौर्यः, ब्रजेशपाठकः च, तदतिरिक्तं भाजपायाः सहयोगिदलानां नेतारः अपि मेरठनगरं प्राप्तवन्तः।
नितिननवीनः मेरठे सहारनपुरे च आयोज्यमानेषु कार्यक्रमेषु सम्बोधनं करिष्यति।--------------
Hindusthan Samachar / Dheeraj Maithani