Enter your Email Address to subscribe to our newsletters

उज्जयिनी, २१ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशस्य उज्जयिनीस्थे विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे सोमवासरे प्रातः भाद्रपदशुक्लपक्षस्य दशमीतिथौ बाबा महाकालस्य भस्मारार्तिकी विशेष-शृङ्गारेण सम्पन्ना। प्रातः ४ वादने मन्दिरस्य कपाटोद्घाटनानन्तरं गर्भगृहे प्रतिष्ठितानां देवीदेवतानां पूजनं कृतम्। ततः भगवत: महाकालस्य जलाभिषेकं कृत्वा दुग्धेन, दध्ना, घृतेन, मधुना फलरसैश्च निर्मितेन पञ्चामृतेन अभिषेकः कृतः।
प्रथमहोरानादेन भस्मारार्तिक्या: विधिः प्रारब्धः। पुरोहितैः मन्त्रपाठस्य मध्ये भगवतः ध्यानं कृत्वा हरिओमजलं समर्पितम्। कर्पूरारार्तिक्या: अनन्तरं भगवत: महाकालस्य मस्तके भाङ्गेन, चन्दनेन त्रिपुण्ड्रेण च शृङ्गारः कृतः।
भस्मार्पणानन्तरं राजस्वरूपशृङ्गारः
पूजनशृङ्गारयोः अनन्तरं ज्योतिर्लिङ्गं वस्त्रेण आच्छाद्य तस्मिन् भस्म समर्पितम्। ततः बाबा महाकालाय शेषनागस्य रजतमुकुटं, रजतमुण्डमालां रुद्राक्षमालां च धारिता। मल्लिकायाः गुलाबस्य च सुगन्धिपुष्पैः निर्मिताभिः मालाभिः भगवान् अलङ्कृतः। फलानि मिष्टान्नानि च नैवेद्यरूपेण समर्पितानि। महा-निर्वाणी-अखाडातः भगवते महाकालाय भस्म समर्पितम्।
जयघोषैः मन्दिरपरिसरः गुञ्जितः
भस्मारार्तिक्या: समये बहुसंख्याकाः श्रद्धालवः बाबा महाकालस्य दर्शनं कृतवन्तः। मान्यता अस्ति यत् भस्मार्पणा-नन्तरं भगवान् महाकालः निराकार-स्वरूपात् साकारस्वरूपेण भक्तेभ्यः दर्शनं ददाति। अतः अस्य विशेषस्वरूपस्य दर्शनार्थं श्रद्धालवः भस्मारार्तिक्यां सम्मिलिताः।
दर्शनसमये श्रद्धालवः नन्दीमहाराजस्य दर्शनं कृत्वा तस्य कर्णसमीपे स्व-मनोकामनाः निवेद्य आशीर्वादं याचितवन्तः। मन्दिरपरिसरे बाबा महाकालस्य जयघोषाः निरन्तरं गुञ्जितवन्तः।
Hindusthan Samachar / Divya Ranjan