Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। इन्दिरागान्धीराष्ट्रियकलाकेन्द्रे २४ तः २६ सेप्टेम्बरपर्यन्तं सप्तमस्य ‘नदी-महोत्सवस्य’ आयोजनं भविष्यति। अस्य उद्घाटनं दिल्ली इत्यस्य उप-राज्यपालः तरणजीतसिंहसन्धुः करिष्यति। अस्मिन् वर्षे महोत्सवस्य मुख्यविषयः ‘यमुनानदी’ इत्यस्मिन् केन्द्रितः अस्ति।
आईजीएनसीए-सदस्यसचिवः डॉ. सच्चिदानन्दजोशी सोमवासरे अत्र कलाकेन्द्रस्य परिसरे आयोजिते वार्ताहर-सम्मेलने एतां सूचनां दत्तवान्। तेन उक्तं यत् त्रिदिवसीयस्य अस्य महोत्सवस्य उद्देश्यं नदीनां महत्त्वं, तासां संरक्षणं सांस्कृतिकसरोकारांश्च जनसामान्यं प्रति प्रेषयितुम् अस्ति।
त्रिदिनात्मकस्य अस्य कार्यक्रमस्य अन्तर्गतं युवभ्यः वादविवादः, रेखाचित्र-निर्माणं, व्यङ्ग्यचित्रनिर्माणम् इत्यादयः विविधाः सृजनात्मकाः प्रतियोगिताः आयोजयिष्यन्ते। तदतिरिक्तं विविधाः सत्राः आयोजयिष्यन्ते। वृत्तचित्रचलच्चित्रमहोत्सवे विभिन्नभाषासु निर्मितानि चलच्चित्राणि प्रदर्शयिष्यन्ते। अस्य मुख्यविषयः ‘नदी अभिलेखकस्य रूपेण’ इति निर्धारितः अस्ति। अस्मिन् प्रसिद्धैः चलच्चित्रनिर्मातृभिः सह आईजीएनसीए-संस्थया ब्रह्मपुत्रायाः, सिन्धुनद्याः, नर्मदायाः यमुनायाश्च विषये निर्मितानि वृत्तचित्राणि प्रदर्शयिष्यन्ते।
युवानां महिलानां च सहभागितां सुनिश्चित्य नदीनामधिकृत्य मौलिककाव्यलेखन-प्रतियोगिताः आयोजयिष्यन्ते। विविधाः प्रदर्शन्यः अपि प्रदर्शयिष्यन्ते। नदीनां प्रवाहं ज्ञातुं तासां संरक्षणे च संलग्नाः देशस्य विभिन्नाः स्वयंसेवीसंस्थाः सामाजिक-कार्यकर्तारश्च परिचर्चायै एकस्मिन् मञ्चे आनयिष्यन्ते। अस्मिन् देशभरात् प्रायः पञ्चाशत् विशेषज्ञाः सहभागं करिष्यन्ति। अस्मिन् वर्षे युवावंशं महोत्सवेन सह संयोजयितुं विशेषं ध्यानं दीयते।
डॉ. जोशी उक्तवान् यत् भारतीयसंस्कृतौ नद्यः केवलं भौगोलिकाः इकायाः अथवा जलस्य स्रोतांसि न सन्ति, अपि तु सभ्यतायाः, साहित्यस्य, श्रद्धायाः स्मृतीनां च आधाराः सन्ति। समाजः नद्यः मातृरूपेण, भगिनीरूपेण पुत्रीरूपेण च पश्यति स्म तथा च ताभिः सह अनेकाः परम्पराः तीजोत्सवाः पर्वाणि च सम्बद्धानि सन्ति। तेन स्पष्टं कृतं यत् महोत्सवस्य मुख्योद्देश्यं विद्यालय-महाविद्यालयेषु अध्ययनरतासु युववंशेषु नदी प्रति आत्मीयतां जागरयितुं तथा च एतत् व्यापकसांस्कृतिक-आन्दोलनस्य रूपं दातुम् अस्ति।
अस्मिन् अवसरे आईजीएनसीए-माध्यम-केन्द्रस्य नियन्त्रकः अनुरागपुनेठा, नदीमहोत्सवस्य संयोजकः अभयमिश्रः इत्यादयः अन्ये च जनाः उपस्थिताः आसन्।
उल्लेखनीयं यत् आईजीएनसीए-संस्थया पूर्वं नासिके (गोदावरी), उज्जयिन्यां (शिप्रा) विजयवाडायां (कृष्णा) च इत्यादिषु नगरेष्वपि नदीमहोत्सवाः आयोजिताः सन्ति।
/ अंशु गुप्ता