Enter your Email Address to subscribe to our newsletters

भोपालम्, 21 सितम्बरमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अवदत् यत् क्रीडकाः स्वस्य उत्कृष्टया उपलब्ध्या जापानदेशे भारतस्य तिरङ्गध्वजं लहरयन्तः सन्ति। तेन पदकविजेतृभ्यः क्रीडकेभ्यः शुभकामनाः प्रदत्ताः।
मुख्यमन्त्री डॉ. यादवः सोमवासरे सामाजिकमाध्यमस्य ‘एक्स’ इत्यस्य माध्यमेन एशियाईक्रीडा २०२६ इत्यस्य पुरुषाणां दशमीटरवायुराइफलदलस्पर्धायां रजतपदकं विजित्य रुद्रांक्षबालासाहेबपाटिलाय, पार्थराकेशमाने तथा हिमांशुधिल्लोनाय शुभकामनाः अयच्छत्।
मुख्यमन्त्रिणा डॉ. यादवेन स्वसन्देशे उक्तं यत् एतत् देशस्य कोटिशः क्रीडाप्रेमिभ्यः गौरवस्य प्रेरणायाश्च अवसरः अस्ति। मुख्यमन्त्रिणा डॉ. यादवेन क्रीडकानां उज्ज्वलभविष्याय मङ्गलकामनाः अपि कृताः।
---------------
Hindusthan Samachar / Dheeraj Maithani