Enter your Email Address to subscribe to our newsletters

भारत-पाकिस्तानयोः मध्ये १९६५ तमे वर्षे जातं युद्धं उभयोः देशयोः इतिहासस्य महत्त्वपूर्णः सैन्यसङ्घर्षः मन्यते। एतत् युद्धं प्रायः ‘द्वितीयं काश्मीरयुद्धम्’ इति कथ्यते। तस्मात् पूर्वम् अपि १९४७ तमे वर्षे स्वातन्त्र्यप्राप्तेः अनन्तरं काश्मीरविषयं प्रति उभौ देशौ युद्धं कृतवन्तौ।
१९६५ तमे वर्षे अभवत् युद्धं प्रायः पञ्चसप्ताहपर्यन्तम् अचलत्। युद्धकाले भारतीयसेना पाकिस्तानस्य पञ्जाब-प्रान्तस्य राजधानीं लाहौरनगरस्य बाह्यभागान् यावत् प्राप्नोत्। अस्मिन्नेव काले भारतं सामरिकदृष्ट्या महत्त्वपूर्णं हाजीपीरदुर्गमपि स्वाधीनं कृतवान्।
अस्मिन् युद्धे उभयोः देशयोः सहस्रशः सैनिकाः नागरिकाश्च मृताः। दीर्घकाल-पर्यन्तं युद्धस्य सञ्चालनं द्वयोः देशयोः आर्थिकसैन्यसामर्थ्ययोः उपरि गम्भीरं भारं जनयति स्म। अतः अन्ताराष्ट्रिये स्तरेऽपि युद्धविरामाय बलं क्रमशः वर्धितम्।
संयुक्तराष्ट्रसुरक्षापरिषदः स्थायि-अस्थायि-सदस्यै: सह प्रमुखाः शक्तयः भारत-पाकिस्तानयोः शीघ्रं संघर्षसमाप्तिं कामयन्ते स्म। तत्कालीनः सोवियतसङ्घः उभयोः देशयोः मध्ये मध्यस्थतायाः प्रयासम् आरब्धवान्। अन्ततः युद्धविरामस्य प्रायः चतुर्मासानन्तरं शान्तिसन्धे: मार्गः प्रशस्तः अभवत्।
१९६६ तमस्य वर्षस्य जनवरीमासे तत्कालीनस्य सोवियतसङ्घस्य गण-राज्यस्य उज्बेकिस्तानस्य राजधान्यां ताश्कन्दनगरे भारतस्य तत्कालीन-प्रधानमन्त्री लालबहादुरशास्त्री तथा पाकिस्तानस्य राष्ट्रपतिः अय्यूबखानः च सन्धौ हस्ताक्षरं कृतवन्तौ। सोवियतप्रधानमन्त्री अलेक्सेई कोसिगिनस्य उपस्थितौ सम्पन्नः अयं सम्झौतः ‘ताश्कन्दसम्झौतः’ इति नाम्ना प्रसिद्धः अभवत्।
महत्त्वपूर्णघटनाचक्रम्
१५३९ — सिखसम्प्रदायस्य प्रथमगुरोः नानकदेवस्य करतारपुरे निधनम् अभवत्। पाकिस्तानदेशे स्थितम् एतत् स्थानम् अधुना डेराबाबानानक इति नाम्ना ज्ञायते।१५९९ — लण्डननगरस्य फाउण्डर्स-हॉल इति स्थाने २१ वणिजां सभा अभवत्, यस्यां भारतस्य सह व्यापाराय नूतनस्य संस्थानस्य स्थापनाविषये चर्चा कृता।१७८९ — अमेरिकीय-काङ्ग्रेसेन पोस्टमास्टर-जनरलस्य कार्यालयस्य स्थापनायै अनुमतिः प्रदत्ता।१७९२ — फ्रान्सगणराज्यस्य स्थापनायाः घोषणा अभवत्।१९०३ — अमेरिकीयनागरिकाय इटालो मार्चिओनी इत्यस्मै आइसक्रीम-कोनस्य कृते पेटेण्ट्-अधिकारः प्रदत्तः।१९१४ — जर्मनीदेशस्य युद्धपोतः इम्देन् मद्रासबन्दरगाहे बमप्रहारं कृतवान्।१९४९ — सोवियतसङ्घेन प्रथमपरमाणुबमस्य सफलतापूर्वकं परीक्षणं कृतम्।१९५५ — ब्रिटेनदेशे दूरदर्शनस्य व्यावसायिकीकरणम् आरब्धम्। प्रतिघण्टं केवलं षड्निमेषपर्यन्तं विज्ञापनप्रसारणस्य अनुमतिः आसीत् तथा रविवासरे प्रातःकाले तस्य प्रसारणस्य अनुमतिः नासीत्।१९६१ — अमेरिकीराष्ट्रपतिना जॉन एफ. केनेडी इत्यनेन शान्तिसेवादलस्य स्थापनार्थं काङ्ग्रेसस्य अधिनियमस्य उपरि हस्ताक्षरं कृतम्।१९६५ — भारत-पाकिस्तानयोः मध्ये संयुक्तराष्ट्रस्य प्रयासेन युद्धविरामः अभवत्।१९६६ — अमेरिकीयं ‘सर्वेयर-२’ इति अन्तरिक्षयानं चन्द्रमसः पृष्ठभागेन सह लग्नम्।१९७७ — अमेरिकीय-फुटबॉलदलम् पेले-महोदयस्य नेतृत्वे द्वौ प्रदर्शन-क्रीडास्पर्धां कर्तुं कलकत्तानगरं प्राप्तम्।१९८० — ईरान-इराकयोः मध्ये प्रचलितः सीमासङ्घर्षः युद्धरूपं धृतवान्।१९८८ — कनाडासर्वकारेण द्वितीयविश्वयुद्धस्य काले जापानस्य तथा कनाडादेशस्य नागरिकाणां निरुद्धतायै क्षमा याचिता तथा क्षतिपूर्तिप्रदानस्य वचनमपि दत्तम्।१९९२ — संयुक्तराष्ट्रमहासभया बोस्निया-हर्जेगोविनायां प्रचलिते युद्धे भूमिकायाः कारणात् यूगोस्लावियादेशः निष्कासितः।२००२ — फ्रान्सदेशेन आइवरीकोस्ट्-देशे स्वस्य सैन्यदलम् प्रेषितम्।२००६ — अन्ताराष्ट्रिय-अन्तरिक्षस्थानकस्य निर्माणकार्यसम्बद्धं मिशनं कृत्वा गतं ‘अटलाण्टिस्’ अन्तरिक्षयानं अमेरिकादेशस्य केनेडी-अन्तरिक्षकेन्द्रे सकुशलम् अवतीर्णम्। राष्ट्रिय-कैडेट्-कोर इत्यस्य दशसदस्यीयं दलं मॉस्कोनगरं प्रति प्रस्थितम्।२००७ — ईरानेन १८०० किलोमीटर्-पर्यन्तं प्रहारक्षमतायाः क्षेपणास्त्रस्य प्रदर्शनं कृतम्। नासायाः वायुविमानेन मङ्गलग्रहे गुहासदृशाः सप्त आकृतयः अन्विष्टाः।२००८ — प्रधानमन्त्री डॉ. मनमोहनसिंहः अमेरिकादेशस्य फ्रान्सदेशस्य च दशदिवसीययात्रायै प्रस्थितवान्।२०११ — भारतीययोजनायोगेन सर्वोच्चन्यायालये प्रस्तुतस्य शपथपत्रस्य माध्यमेन नगरेषु प्रतिमासं ९६५ रूप्यकाणि तथा ग्रामेषु ७८१ रूप्यकाणि व्ययितुं शक्नुवन्तं व्यक्तिं निर्धनं मन्यमानस्य मापदण्डस्य विरोधः कृतः।२०१८ — ईराने वार्षिकसैन्यप्रदर्शनस्य समये आतङ्कवादिभिः आक्रमणं कृतम्। महिलाभिः बालकैश्च सह न्यूनातिन्यूनं २९ जनाः हताः। आक्रमणस्य दायित्वम् इस्लामिक-स्टेट्-सङ्गठनेन स्वीकृतम्।
जन्म
१८५३ — शारदादेवी, रामकृष्णपरमहंसस्य जीवनसङ्गिनी।१८६९ — वी. एस. श्रीनिवासशास्त्री, भारतस्य समाजसुधारकः।१९५० — पवनकुमारचामलिङ्गः, भारतस्य सिक्किमराज्यस्य मुख्यमन्त्री तथा ‘सिक्किम डेमोक्रेटिक फ्रण्ट्’ इति राजनैतिकदलस्य संस्थापकः।१९७९ — रोहितसरदाना, भारतीयः समाचारवक्ता।
निधनम्
१५३९ — नानकदेवः, सिक्खसम्प्रदायस्य प्रथमगुरुः।१९७९ — मौलाना अब्दुल अली मौदूदी, जमीयत-ए-इस्लाम् इति संस्थायाः संस्थापकः।१९९१ — दुर्गा खोटे, हिन्दी-मराठीचलचित्रयोः प्रसिद्धा अभिनेत्री।२०११ — मंसूर अली खान पटौदी, प्रसिद्धः भारतीयः क्रिकेटक्रीडकः।२०२० — आशालता वाबगांवकर, मराठी-हिन्दीचलचित्रयोः प्रसिद्धासु अभिनेत्रीषु एका।
महत्त्वपूर्णः अवसरः
राष्ट्रियगुलाबदिवसः।
Hindusthan Samachar / Divya Ranjan