केरलचलच्चित्रमहोत्सवे कस्याश्चित् चलचित्रस्य प्रदर्शनस्य प्रतिबन्धो न - केन्द्र
नवदिल्ली, 21 सितंबरमासः (हि.स.)। सूचनाप्रसारणमन्त्रालयेन सोमवासरे स्पष्टं कृतं यत् तिरुवनन्तपुरे आयोज्यमाने अष्टादशे अन्तर्राष्ट्रीयप्रलेखचित्रलघुचलच्चित्रमहोत्सवे केरलस्य कस्यापि चलचित्रस्य प्रदर्शनस्य अनुमतिः न निराकृता अस्ति। मन्त्रालयेन उक्तं य
df33fb826136554e1eeff589925ac100_1083988912.jpg


नवदिल्ली, 21 सितंबरमासः (हि.स.)। सूचनाप्रसारणमन्त्रालयेन सोमवासरे स्पष्टं कृतं यत् तिरुवनन्तपुरे आयोज्यमाने अष्टादशे अन्तर्राष्ट्रीयप्रलेखचित्रलघुचलच्चित्रमहोत्सवे केरलस्य कस्यापि चलचित्रस्य प्रदर्शनस्य अनुमतिः न निराकृता अस्ति। मन्त्रालयेन उक्तं यत् षड्चलचित्राणां विस्तृतसारांशः याचितः अस्ति, यदा तु विषयवस्तुनः प्रकृतेश्च आधारेण कतिपयानि चलचित्राणि समीक्षार्थं सम्बन्धितक्षेत्रीयप्राधिकरणेषु प्रेषितानि सन्ति।

मन्त्रालयस्य एतत् स्पष्टीकरणं कांग्रेसदलस्य सांसदस्य शशि थरूरस्य तस्य दावस्य अनन्तरम् आगतम्, यस्मिन् तेन एकत्रिंशत् चलचित्राणां प्रदर्शनस्य अनुमतिः स्थगिता इति उक्तम् आसीत्। थरूरेण सामाजिकमाध्यमे प्रकाशितेन सन्देशेन एतत् अभिव्यक्तिस्वातन्त्र्येण सम्बद्धं कृत्वा केन्द्रीयसूचनाप्रसारणमन्त्री अश्विनी वैष्णवः हस्तक्षेपं कुर्यात् इति आग्रहः कृतः आसीत्।

मन्त्रालयेन एक्स इति सामाजिकमाध्यममञ्चे प्रकाशिते स्पष्टीकरणे उक्तं यत् कस्यापि चलचित्रस्य प्रदर्शनस्य प्रतिबन्धः न कृतः अस्ति। कतिपयानि चलचित्राणि तेषां विषयवस्तुनः अनुरूपं सम्बन्धितविभागेभ्यः समीक्षां प्राप्तुं क्षेत्रीयप्राधिकरणेषु प्रेषितानि सन्ति। मन्त्रालयस्य अनुसारं षड्चलचित्राणां विषये विस्तृतसारांशः उपलब्धः कर्तुं याचना कृता अस्ति।

उल्लेखनीयं यत् अष्टादशम् अन्ताराष्ट्रियप्रलेखचित्रलघुचलच्चित्रमहोत्सवः केरलस्य तिरुवनन्तपुरे पञ्चविंशतितः त्रिंशत् सितम्बरपर्यन्तं आयोजयिष्यते।---------

Hindusthan Samachar / Dheeraj Maithani