सरदारतेजासिंहसमुन्दरी गुरुद्वारासुधारान्दोलनस्य दूरदर्शीनेता आसीत् - तरनजीतसिंहसन्धुः
नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। दिल्ली इत्यस्य उपराज्यपालः तरनजीत-सिंहसन्धुः सोमवासरे स्वस्य पितामहस्य सरदारतेजासिंहसमुन्दरी-महोदयस्य बलिदानस्य शततम्याः पुण्यतिथेः उपलक्ष्ये आयोजिते कार्यक्रमे भागं गृहीतवान्। द्वारकास्थिते गुरुद्वारा श्रीगुरुस
द्वारका के गुरुद्वारा श्री गुरु सिंह सभा मेंअपने दादा सरदार तेजा सिंह समुंदरी की शहादत की 100वीं बरसी उनको नमन करते हुए


गुरुद्वारा श्री गुरु सिंह सभा में सेवा और लंगर में  संगत की सेवा करते  दिल्ली के उपराज्यपाल तरनजीत  सिंह संधू


नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। दिल्ली इत्यस्य उपराज्यपालः तरनजीत-सिंहसन्धुः सोमवासरे स्वस्य पितामहस्य सरदारतेजासिंहसमुन्दरी-महोदयस्य बलिदानस्य शततम्याः पुण्यतिथेः उपलक्ष्ये आयोजिते कार्यक्रमे भागं गृहीतवान्। द्वारकास्थिते गुरुद्वारा श्रीगुरुसिंहसभायाम् आयोजिते अस्मिन् कार्यक्रमे भारतीयजनतापक्षस्य सांसदः कमलजीत-सहरावत: तथा विधायकः सन्दीपसहरावत् अपि उपस्थितौ आस्ताम्।

उपराज्यपालः अवदत् यत् तस्य पितामहः सरदारतेजासिंहसमुन्दरी गुरुद्वारासुधारा-न्दोलनस्य दूरदर्शी नेता आसीत्। सः स्वजीवनं गुरुद्वारासुधाराय, शिक्षायै, समानतायै भारतस्य स्वातन्त्र्यसङ्घर्षाय च समर्पितवान्।

उपराज्यपालः अवदत् यत् तस्य सर्वोच्च-बलिदानम् सत्यतापूर्णस्य, अहिंसा-त्मकसङ्घर्षस्य निःस्वार्थसेवायाश्च शाश्वतं प्रतीकम् अस्ति। एषा अमूल्या परम्परा वंशेभ्यः निरन्तरं प्रेरणां प्रदास्यति। उपराज्यपालः गुरुद्वारे सेवामपि कृतवान् तथा च लङ्गरप्रसादम् अपि स्वीकृतवान्।

उल्लेखनीयं यत् १९१३-१९१४ तमे वर्षे यदा ब्रिटिशशासनेन दिल्लीस्थस्य गुरुद्वारा रकाबगञ्जसाहिबस्य प्राचीरस्य एकः भागः पातितः, तदा सरदारतेजासिंहसमुन्दरी तस्य पुनर्निर्माणस्य आन्दोलनस्य अग्रणीषु नेतृषु आसीत्। प्राचीरस्य पुनर्निर्माणं अनुशासितस्य अहिंसात्मकस्य च आन्दोलनस्य सफलतायाः प्रतीकम् अभवत्।

१९२५ तमे वर्षे ‘सिखगुरुद्वाराअधिनियम’ इत्यस्य माध्यमेन प्रमुखगुरुद्वाराणां प्रबन्धनं सङ्गतेः हस्ते समर्पितम् आसीत्, तथापि तस्मिन् समये अकाली-आन्दोलनस्य शिरोमणिगुरुद्वाराप्रबन्धक-समितेः च अनेकाः प्रमुखनेतारः कारागारेषु बद्धाः आसन्। तेषां मुक्तेः विनिमये ब्रिटिशशासनं लिखितम् आश्वासनम् इच्छति स्म यत् ते भविष्ये कस्मिन्नपि आन्दोलने भागं न ग्रहीष्यन्ति। तदा सरदारतेजासिंहसमुन्दरी सशर्तमुक्तिं निराकृत्य कारागारे एव स्थातुं स्वीकृतवान् तथा ४४ वर्षे वयसि १९२६ तमे वर्षे लाहौरकेन्द्रीयकारागारे वीरगतिं प्राप्तवान्।

/ अंशु गुप्ता