Enter your Email Address to subscribe to our newsletters

लखनऊ, २१ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशे अग्रिमकाले ग्रामेषु स्थिताः गोशालाः अपि स्थानीयसंस्कृतेः ग्रामीण-जीवनस्य च परिचायकाः भविष्यन्ति। योगिसर्वकारस्य एषः सङ्कल्पः शीघ्रमेव मूर्तरूपं प्राप्स्यति। गोसंरक्षणाय सञ्चालितानां गोशालानां परम्पराणाम्, भौगोलिकपरिस्थितिनां, ग्रामीणा-वश्यकतानां च अनुरूपं विकासं कर्तुं सज्जता क्रियते। चिताः गौशालाः, कान्हागृहाणि, गोसंरक्षणकेन्द्राणि च गोपर्यटनेन सह सम्बद्धीकृत्य ग्रामेषु आर्थिकगतिविधीनां नूतनाः मार्गाः अन्विष्यन्ते।
उत्तरप्रदेशगोसेवा-आयोगस्य अध्यक्षः श्यामबिहारीगुप्तः अवदत् यत् गोशालानां प्रस्ताविते नूतनस्वरूपे संरक्षणेन सह पर्यटनाय स्थानीयगतिविधिभ्यश्च अपि स्थानं प्रदास्यते। अस्य उद्देश्यं क्षेत्रस्य संस्कृतिं परम्परां च तत्रत्यया गोशालया सह सम्बद्धीकर्तुम् अस्ति। एतेन गोशाला केवलं पशुसंरक्षणस्थानं न भूत्वा ग्रामीणजीवनस्य स्थानीयपरिचयस्य च परिचायककेन्द्रं भवितुम् अर्हति। क्षेत्रानुसारं तत्र तादृश्यः गतिविधयः विकसितुं शक्नुवन्ति, याभिः बहिरागताः जनाः ग्रामस्य जीवनशैलीं, पशुपालनं, स्थानीय-परम्पराश्च ज्ञातुं शक्नुयुः।
मांगलिककार्यक्रमेभ्यः अपि उद्घाटितानि भविष्यन्ति द्वाराणि
चितासु गौशालासु मांगलिककार्य-क्रमाणाम् आयोजनाय अपि व्यवस्थां विकसितुं सज्जता क्रियते। एतेन गौशालानाम् उपयोगः केवलं दैनिकगोसंरक्षणगतिविधिषु सीमितः न भूत्वा सामाजिक-सांस्कृतिककार्यक्रमैः सह अपि सम्बद्धः भवितुं शक्नोति। स्थानीयपरिस्थितीनाम् अनुरूपं तादृशानां स्थलानां विकासस्य योजना अस्ति, यत्र ग्रामीणपरिवेशस्य मध्ये पारम्परिक-कार्यक्रमाणाम् आयोजनस्य सुविधा उपलब्धा भवेत्। एतेन गौशालाः परितः आर्थिकगतिविधिभ्यः अपि अवसराः उत्पत्स्यन्ते।
गोपर्यटनस्य एषः प्रतिरूपः सर्वत्र समानः न भविष्यति। यस्य क्षेत्रस्य या विशेषता भविष्यति, तदनुरूपमेव गोशालायाः स्वरूपस्य विकासे बलं दीयते। कुत्रचित् लोकसंस्कृतिः परम्पराश्च आकर्षणस्य केन्द्रं भवितुम् अर्हन्ति, अन्यत्र स्थानीयभोजनम्, कला, शिल्पं वा ग्रामीणजीवनशैली गतिविधिभिः सह सम्बद्धा भवितुम् अर्हति। एवं विभिन्नेषु क्षेत्रेषु तेषां स्थानीयविशेषतानाम् आधारेण गोपर्यटनस्य विभिन्नानि प्रतिरूपाणि विकसितुं शक्नुवन्ति।
स्थानीयजनानां कृते नूतनाः अवसराःआयोगस्य अध्यक्षः श्यामबिहारीगुप्तः अवदत् यत् गोपर्यटनस्य विकासे तस्य विस्तारः केवलं गोशालापरिसरपर्यन्तं सीमितः न भविष्यति। समीपस्थेभ्यः ग्रामीणभ्यः, स्वयं सहायता-समूहेभ्यः, स्थानीयशिल्पिभ्यः, लघुव्यवसायिभ्यः, खानपानसम्बद्धेभ्यश्च जनेभ्यः नूतनाः अवसराः उत्पत्स्यन्ते। पर्यटकाणाम् आवागमनस्य वृद्ध्या स्थानीयोत्पादानां सेवां च प्रति याचना उत्पद्येत इति सम्भावना अस्ति। तथापि एतेषाम् अवसराणां वास्तविकं स्वरूपं सम्बद्धगोशालायां तत्र विकसितासु गतिविधिषु च निर्भरं भविष्यति।
अस्मिन् प्रतिरूपे ग्रामस्य स्थानीया-र्थव्यवस्थां गोशालया सह सम्बद्धीकर्तुं सम्भावनाः अपि अन्विष्यन्ते। गोशालाः परितः स्थानीयोत्पादानां, ग्रामीणकलायाः, पारम्परिकगतिविधीनां च कृते स्थानं प्रदत्ते ग्रामस्य विशिष्टपरिचयं प्रकाशयितुं अवसरं प्राप्स्यते। एतेन ग्रामीणक्षेत्रेषु पर्यटनाधारितगतिविधीनां नूतनम् आधारं निर्मातुं शक्यते।
कान्हागृहाणि बृहद्गोसंरक्षणकेन्द्राणि च अपि विकसितानि भविष्यन्ति
उत्तरप्रदेशगौसेवा-आयोगस्य अध्यक्षः श्यामबिहारीगुप्तः अवदत् यत् मुख्य-मन्त्रिणः योगी-आदित्यनाथस्य निर्देशा-नुसारं गोसंरक्षणकेन्द्राणां नूतनस्वरूपेण विकासाय रणनीतिः निर्मीयते। चयनितगौशालाभिः सह कान्हागृहाणि बृहद्गोसंरक्षणकेन्द्राणि च अपि विकसितुं सज्जता क्रियते।
अस्याः सम्पूर्णस्य योजनायाः महत्त्वपूर्णः पक्षः अस्ति यत् गौशालाः ग्रामस्य सामाजिक-सांस्कृतिकसंरचनया सह सम्बद्धाः क्रियन्ते। एतेन संरक्षणस्य मूलभूमिकां यथावत् स्थापयित्वा तासाम् उपयोगस्य क्षेत्रं विस्तर्तुं शक्यते। ग्रामम् आगच्छन् जनः केवलं गौशालादर्शनपर्यन्तं सीमितः न भवेत्, अपि तु तत्रत्यां संस्कृतिं, परम्परां, ग्रामीणजीवनं च अनुभवेयेत्—इत्येतादृश्या भावनया प्रतिरूपस्य विकासस्य सज्जता क्रियते।
Hindusthan Samachar / Divya Ranjan