नीबकरौरीबाबा इत्यस्य आध्यात्मिकयात्रां चलचित्रमाध्यमेन जनं जनं प्रति नेतुं प्रयासः प्रशंसनीयः - अमितशाहः
नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। बाबा नीबकरौरी-महोदयस्य जीवन-माधारितस्य ‘हनुमान-अंशः’ इति चलचित्रस्य कलाकाराः निर्माणदलस्य सदस्याश्च सोमवासरे नवदिल्ली इत्यत्र केन्द्रीयगृहमन्त्रिणम् अमितशाहं साक्षात् कृतवन्तः। अमितशाहः बाबा नीबकरौरी-महोदयस्य आध
केंद्रीय गृह मंत्री अमित शाह से फिल्म हनुमान अंश की टीम मुलाकात करते हुए


नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। बाबा नीबकरौरी-महोदयस्य जीवन-माधारितस्य ‘हनुमान-अंशः’ इति चलचित्रस्य कलाकाराः निर्माणदलस्य सदस्याश्च सोमवासरे नवदिल्ली इत्यत्र केन्द्रीयगृहमन्त्रिणम् अमितशाहं साक्षात् कृतवन्तः। अमितशाहः बाबा नीबकरौरी-महोदयस्य आध्यात्मिकयात्रां भगवन्तं हनूमन्तं प्रति तस्य अनन्यभक्तिं च चलचित्रमाध्यमेन जनं जनं प्रति नेतुं क्रियमाणस्य प्रयासस्य प्रशंसां कृतवान्।

अमितशाहः सामाजिकमाध्यमस्य ‘एक्स’ इत्यस्य माध्यमेन साक्षात्कारस्य चित्रं सहभागीकृत्य लिखितवान्, “अद्य नवदिल्ली इत्यत्र बाबा नीबकरौरी-महोदयस्य जीवनमाधारितस्य ‘हनुमान-अंशः’ इति चलचित्रस्य कलाकारैः सह मम साक्षात्कारः अभवत्।”

सः अवदत् यत् बाबा नीबकरौरी-महोदयस्य आध्यात्मिकयात्रां हनूमन्तं प्रति तस्य अनन्यभक्तिं च चलचित्रमाध्यमेन जनं जनं प्रति नेतुं क्रियमाणः प्रयासः प्रशंसनीयः अस्ति। अस्य कृते सः चलचित्रस्य सम्पूर्णनिर्माणदलाय अभिनन्दनं प्रदत्तवान्।

साक्षात्कारे चलचित्रे लक्ष्मीनारायणशर्मा-अर्थात् नीबकरौरीबाबा-महाराजस्य भूमिकां निर्वहन् शोभिनवसत्यः, चल-चित्रस्य निर्देशकः लेखकश्च डॉ. विशालचतुर्वेदी, निर्मात्री रागिनीसोना, गीतकारः साधुतिवारी इत्येतैः सह चलचित्रस्य अन्ये सदस्याः अपि उपस्थिताः आसन्।

उल्लेखनीयम् अस्ति यत् ‘हनुमान-अंशः’ इति चलचित्रं बाबा नीबकरौरी-महोदयस्य जीवनम् आध्यात्मिकयात्रां च केन्द्रे निधाय निर्मितम् अस्ति। बाबा नीबकरौरी-महोदयः विंशतितमशताब्द्याः प्रमुखेषु आध्यात्मिक-सन्तेषु अन्यतमः मन्यते। भगवन्तं हनूमन्तं प्रति तस्य अनन्यभक्तेः कारणेन सः विशेषश्रद्धया स्मर्यते।

Hindusthan Samachar / Divya Ranjan