Enter your Email Address to subscribe to our newsletters

लखनऊ, २१ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्रिणः योगी आदित्यनाथस्य मार्गदर्शने २५ तः २९ सेप्टेम्बरपर्यन्तं ग्रेटरनोएडायां अन्ताराष्ट्रियव्यापार-प्रदर्शनस्य चतुर्थसंस्करणस्य आयोजनं भविष्यति। अस्य आयोजनस्य सज्जता पूर्णा कृता अस्ति। अस्मिन् एकतः देश-विदेशेभ्यः आगताः प्रतिनिधयः उत्तरप्रदेशस्य समृद्धां परम्परां द्रक्ष्यन्ति, अपरतः कृषिसंस्कृतेः उन्नतस्वरूपस्यापि दर्शनं करिष्यन्ति।
व्यापारप्रदर्शनस्य समये २० कृषक-उत्पादक-सङ्गठनानि, उत्तरप्रदेशबीज-विकासनिगमः, कृषिनिवेशसम्बद्धाः ४० संस्थाः, अन्ताराष्ट्रियतण्डुलानु-सन्धानसंस्थानम्, दक्षिणएशिया-क्षेत्रीयकेन्द्रं वाराणसी इत्यादीन्यपि सहभागं करिष्यन्ति। कृषिसम्बद्धानां उत्पादानाम्, उपकरणानां, बीजानां रसायनानां च निर्मातृभ्यः मञ्चः प्राप्स्यते, आगन्तुकाश्च उत्तरप्रदेशस्य उन्नतकृषिसंस्कृतेः प्रौद्योगिक्याश्च परिचयं प्राप्स्यन्ति। अत्र प्रदेशस्य प्रगतिशील-कृषकाणां संस्थानां च कृते अन्ताराष्ट्रियमञ्चः प्राप्स्यते। सम्पूर्णस्य उत्तरप्रदेशस्य प्रतिनिधित्वम् एकस्मिन्नेव स्थाने भविष्यति। अन्ताराष्ट्रियव्यापार-प्रदर्शनस्य २०२६-तमस्य संस्करणे कृषिविभागाय सहस्रवर्गमीटरमितं क्षेत्रं निर्धारितम् अस्ति। अस्मिन् कृषिः, कृषिशिक्षा, कृषिसम्बद्धाः संस्थाः, मण्डीपरिषद्-कृषिविपणन-निदेशालयः, कृषि-उपकरणानि, उर्वरकाणि, बीजानि, पादपसंरक्षण-रसायनानां निर्मातृसंस्थाश्च सहभागं करिष्यन्ति।
कृषिविभागस्य संवाद-समन्वयेन २० तः अधिकानि एफपीओ प्रतिभागं करिष्यन्ति
अन्तर्राष्ट्रीयव्यापारप्रदर्शनस्य आयोजने कृषिविभागस्यापि महत्त्वपूर्णा भूमिका अस्ति। कृषिविभागस्य संवादस्य समन्वयस्य च माध्यमेन अस्मिन् २० तः अधिकानि कृषक-उत्पादक-सङ्गठनानि सहभागं करिष्यन्ति। अलीगढः, सीतापुरम्, वाराणसी, लखनऊ, सिद्धार्थनगरम्, कुशीनगरम्, ललितपुरम्, मीरजापुरम्, हरदोई, बुलन्दशहरम्, प्रतापगढः, बहराइचः, इटावा, गाजियाबादम्, अमरोहा, कानपुरम्, सहारनपुरम्, गोण्डा इत्यादिभ्यः विभिन्नेभ्यः जनपदेभ्यः सहभागिता भविष्यति।
कृषिविभागस्य पक्षतः आयोजितायां प्रदर्शन्यां बीज, उर्वरक, कृषियन्त्रसम्बद्धाः संस्थाः अपि सहभागं करिष्यन्ति। अस्मिन् एफपीओ-सम्बद्धाः २०, कृषि-निवेशसम्बद्धाः (बीज, कीटनाशक, उर्वरक, यन्त्रादयः) ४०, एकं शासकीयमिति सर्वमिलित्वा ६१ पटलानि स्थापितानि भविष्यन्ति।
एके सिंहः नोडलाधिकारी नियुक्तः
कृषिविभागस्य पक्षतः संवादाय, समन्वयाय व्यवस्थायाः पर्यवेक्षणाय च नोडलाधिकारिणः अपि नियुक्ताः सन्ति। सम्पूर्णव्यवस्थायै संयुक्तनिदेशकः (ब्यूरो/नियोजन) एके सिंहः नोडलाधिकारी भविष्यति। बीजोत्पादकसंस्थाभिः सह संवादाय अपरकृषिनिदेशकः (बीज एवं प्रक्षेत्र) वाईपी सिंहः तथा उर्वरक-निर्मातृसंस्थानां पर्यवेक्षणाय संयुक्त-कृषिनिदेशकः हरेंद्रकुमारमिश्रः नोडलाधिकारिणौ नियुक्तौ स्तः। कृषिरक्षा-रसायनानां कृते अपरकृषिनिदेशकः (कृषिरक्षा) डॉ. आशुतोषकुमारमिश्रः तथा कृषि-उपकरणानां ड्रोननिर्मातृसंस्थानां च कृते संयुक्तकृषिनिदेशकः (अभियन्त्रण) बलरामवर्मा नोडलाधिकारित्वेन दायित्वं प्राप्तवन्तौ स्तः।
कृषिमन्त्री सूर्यप्रतापशाही उक्तवान् यत् उत्तरप्रदेश-अन्ताराष्ट्रियव्यापारप्रदर्शनस्य चतुर्थसंस्करणस्य (२५ तः २९ सेप्टेम्बरपर्यन्तम्) आयोजने कृषि-विभागस्यापि महत्त्वपूर्णा भूमिका भविष्यति। विभागेन स्वसज्जता पूर्णा कृता अस्ति। अत्र आगमिष्यन्तः अतिथयः आगन्तुकाश्च उत्तरप्रदेशस्य उन्नतकृषि-संस्कृतेः कृषिक्षेत्रे उत्तरप्रदेशस्य प्रगतेश्च परिचयं प्राप्स्यन्ति। आयोजने एफपीओ, बीजोत्पादकसंस्थाः, उर्वरकनिर्मातृसंस्थाः, कृषियान्त्रीकरणसम्बद्धाः संस्थाश्च सहभागं करिष्यन्ति।
Hindusthan Samachar / Divya Ranjan