Enter your Email Address to subscribe to our newsletters

लखनऊ, 21 सितंबरमासः (हि.स.)।
उत्तरप्रदेशस्य उपमुख्यमन्त्री स्वास्थ्य-मन्त्री च ब्रजेशपाठकः सोमवासरे स्वकीयावासे प्रदेशस्य विभिन्नजनपदेभ्यः आगतैः नागरिकैः सह आत्मीयं मिलनं कृत्वा तेषां समस्याः, अपेक्षाः जनहितसम्बद्धान् विविधविषयांश्च पूर्णसंवेदनशीलतया गम्भीरतया च श्रुतवान्।
उपमुख्यमन्त्रिणा ब्रजेशपाठकेन नागरिकैः प्रस्तुतानां विविधप्रकरणानां गम्भीरतया संज्ञानं स्वीकृत्य सम्बन्धिताधिकारिभिः सह वार्ता कृता तथा समस्यायाः शीघ्रं, समयबद्धं, प्रभावी गुणवत्तापूर्णं च निराकरणं कर्तुं आवश्यकाः निर्देशाः प्रदत्ताः। तेन अधिकारिभ्यः निर्देशः दत्तः यत् जनसमस्यानां निराकरणे कस्मिन् अपि स्तरे लापरवाही न करणीया तथा प्रत्येकस्मै पात्रव्यक्तये नियमानुसारं त्वरितं सहाय्यं उपलब्धं करणीयम्।
अस्मिन् अवसरे उपमुख्यमन्त्रिणा ब्रजेशपाठकेन उक्तं यत् “अन्तिमपङ्क्तौ स्थितस्य जनस्य मुखे स्मितम् आनयनमेव अस्माकं जनसेवायाः सर्वोच्चः उद्देशः अस्ति।” तेन उक्तं यत् प्रदेशसर्वकारस्य प्राथमिकता अस्ति यत् शासनस्य योजनानां जनकल्याणकारीसुविधानां च लाभः समाजस्य अन्तिमसोपानस्थं व्यक्तिम् अपि प्राप्नुयात्।
तेन उक्तं यत् जनश्रवणस्य माध्यमेन प्राप्तां प्रत्येकां समस्यां संवेदनशीलतया श्रुत्वा तस्याः प्रभावीसमाधानं सुनिश्चितं करणं सर्वकारस्य प्रतिबद्धता अस्ति। सम्बन्धिताधिकारिभ्यः निर्देशः प्रदत्तः यत् जनहितसम्बद्धानां प्रकरणानां प्राथमिकतया परीक्षणं कृत्वा नियमानुसारं समयबद्धं गुणवत्तापूर्णं च निराकरणं सुनिश्चितं क्रियेत।
उपमुख्यमन्त्रिणा उक्तं यत् प्रदेशसर्वकारः सुशासनस्य, पारदर्शितायाः जनसेवायाश्च सङ्कल्पेन कार्यं करोति। सर्वकारस्य उद्देश्यम् अस्ति यत् सामान्यनागरिकैः स्वकीयसमस्यानां समाधानाय अनावश्यककठिनताः न सोढव्याः भवन्तु तथा शासनस्य योजनानां लाभः प्रत्येकस्मै पात्रव्यक्तये सुगमतया प्राप्नुयात्।
---------------
Hindusthan Samachar / Dheeraj Maithani