मङ्गलूरुरेलक्षेत्रं दक्षिणपश्चिमरेलवे-मैसूरुमण्डलस्य अधीनं भविष्यति - अश्विनीवैष्णवः
नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। रेलमन्त्री अश्विनीवैष्णवः सोमवासरे अवदत् यत् परिचालनसम्बद्धानां समस्यानां निराकरणाय मङ्गलूरोः रेलक्षेत्रं दक्षिणपश्चिमरेलवे-मैसूरुमण्डलस्य अधीनं स्थापयिष्यते। पूर्वं मङ्गलूरोः रेलक्षेत्रं दक्षिणरेलवे, दक्षिणपश्च
रेल मंत्री अश्विनी वैष्णव सोमवार को केरलम के सांसदों के साथ बैठक करते हुए


नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। रेलमन्त्री अश्विनीवैष्णवः सोमवासरे अवदत् यत् परिचालनसम्बद्धानां समस्यानां निराकरणाय मङ्गलूरोः रेलक्षेत्रं दक्षिणपश्चिमरेलवे-मैसूरुमण्डलस्य अधीनं स्थापयिष्यते। पूर्वं मङ्गलूरोः रेलक्षेत्रं दक्षिणरेलवे, दक्षिणपश्चिमरेलवे, कोण्कण-रेलवे कॉर्पोरेशन लिमिटेड् इत्येतेषां तिसृणां रेलसंस्थानां परिचालन-क्षेत्रेषु विभक्तम् आसीत्। एतेन रेलयानानां परिचालने अनावश्यक-विलम्बः समन्वयसम्बद्धाः समस्याश्च जायन्ते स्म।

केरलस्य सांसदैः सह सभायाः अनन्तरं वैष्णवः अवदत् यत् मङ्गलूरोः रेलक्षेत्रम् एकस्यैव परिचालनक्षेत्रस्य अन्तर्गतम् विभिन्नरेलक्षेत्राणां मध्ये रेलयानानाम् आदान-प्रदानसम्बद्धाः समस्याः दूरी-भविष्यन्ति तथा रेलयानानां परिचालनं सुचारुतरं कार्यकुशलं च भविष्यति।

सः अवदत् यत् केरलस्य रेलविकासाय वित्तीयविनियोजनं २०१४ तमे वर्षे ३७२ कोटिरूप्यकेभ्यः वर्धित्वा २०२६–२७ वित्तवर्षे ३,७९५ कोटिरूप्यकाणि अभवत्। विगतेषु द्वादशवर्षेषु राज्ये ६७० किलोमीटरमितदीर्घतायाः षट् बृहद् रेलद्वितीकरण-गेजपरिवर्तनपरियोजनाः पूर्णाः कृताः। १३१ सेतवः अधोमार्गाश्च निर्मिताः तथा रेलजालस्य शतप्रतिशतं विद्युतीकरणम् अपि सम्पन्नम् अस्ति।

केरलस्य २०,००० कोटिरूप्यकाणाम् अधिकमूल्याः रेलपरियोजनाः सम्प्रति कार्यान्वयनस्य विभिन्नेषु चरणेषु सन्ति। तासु नव बहुमार्गीयाः नवीनरेल-मार्गपरियोजनाः, १४५ रेलमार्गोपरिसेतवः-अधोमार्गाश्च, १९ रेलस्थानकानां पुनर्वि-कासश्च अन्तर्भवन्ति।

रेलमन्त्रिणा उक्तं यत् रेलक्षमतावर्धनाय षट्सु रेलखण्डेषु तृतीय-चतुर्थरेलमार्गयोः निर्माणाय विस्तृतपरियोजनाप्रतिवेदनस्य सज्जतार्थं सर्वेक्षणं प्रचलति। एतेषां खण्डानां समग्रदीर्घता ८०० किलोमीटरतः अधिका अस्ति। भूम्यधिग्रहणं तु अनेकासां परियोजनानां प्रगतौ प्रमुखा बाधा वर्तते। विभिन्नपरियोजनाभ्यः ६१८ हेक्टेयरमिता भूमिः अपेक्षिता अस्ति, यस्याः केवलं ७८ हेक्टेयरमिता भूमिः अधिगृहीता अस्ति। शेषा ५४० हेक्टेयरमिता भूमिः अधिगन्तव्या अस्ति। भूम्यधिग्रहणाय रेलविभागेन केरलसर्वकाराय १,९७६ कोटिरूप्यकाणि पूर्वमेव निक्षिप्तानि सन्ति।

भूम्यधिग्रहणे विलम्बेन अङ्गमाली–शबरीमला

नवीनरेलमार्गपरियोजनासहितानां कतिपयपरियोजनानां गतिः प्रभाविता अस्ति। केरलस्य १४५ मार्गोपरिसेतूनाम् अधोमार्गाणां च निर्माणं ४,७८६ कोटिरूप्यकाणां व्ययेन प्रचलति।यात्रिसुविधासु सम्पर्कव्यवस्थायां च वैष्णवः अवदत् यत् केरलस्य षट् वन्देभारतं तथा षट् अमृतभारतं रेलयानसेवाः प्रचलन्ति। विगतेषु पञ्चवर्षेषु राज्ये १८० तः अधिकानि नूतनस्थान-कावस्थानानि प्रदत्तानि, विगतद्विवर्षयोः २२ नूतनरेलयानसेवाः आरब्धाः च। अमृतभारतस्थानकयोजनायाः अन्तर्गतं केरलस्य ३५ रेलस्थानकानां पुनर्वि-कासाय ३,१११ कोटिरूप्यकाणि व्यय्यन्ते। एतेषु १६ स्थानकेषु कार्यं पूर्णम् अस्ति।

रेलविभागानुसारं केरलस्य २०१४ तमवर्षात् अनन्तरं ४९३ किलोमीटर-मितस्य रेलमार्गस्य विद्युतीकरणं कृतम् अस्ति तथा राज्यस्य १,०४६ मार्गकिलोमीटरमितं सम्पूर्णं रेलजालं विद्युतीकृतम् अस्ति।

Hindusthan Samachar / Divya Ranjan