‘रॉ’ इत्यस्य कथां बृहत्तमपटले आनेष्यति करणजौहरः
मुंबई, 21 सितंबरमासः (हि.स.)। निर्माता करणजौहरः भारतस्य बाह्यगुप्तचरसंस्थायाः रिसर्च एण्ड एनालिसिस विंग अर्थात् ‘रॉ’ इत्यस्य संस्थापकस्य रामेश्वरनाथकाओ इत्यस्य जीवनाधारितां चलचित्रकथां निर्मातुं सज्जः अस्ति। इदं चलचित्रं लेखकस्य नितिनगोखले इत्यस्
आर.एन. काओ - फोटो सोर्स एक्स


मुंबई, 21 सितंबरमासः (हि.स.)।

निर्माता करणजौहरः भारतस्य बाह्यगुप्तचरसंस्थायाः रिसर्च एण्ड एनालिसिस विंग अर्थात् ‘रॉ’ इत्यस्य संस्थापकस्य रामेश्वरनाथकाओ इत्यस्य जीवनाधारितां चलचित्रकथां निर्मातुं सज्जः अस्ति। इदं चलचित्रं लेखकस्य नितिनगोखले इत्यस्य ‘आर. एन. काओ : जेन्टलमैन स्पाइमास्टर’ इति पुस्तके आधारितं भविष्यति। चलचित्रस्य निर्माणं धर्मा प्रोडक्शन्स तथा लियो मीडिया कलेक्टिव इत्येताभ्यां संस्थाभ्यां संयुक्तरूपेण भविष्यति। चलचित्रस्य प्रदर्शनदिनाङ्कः ११ अगस्त २०२८ इति निर्धारितः अस्ति।

चलचित्रे आर. एन. काओ इत्यस्य १९५५ तः १९७१ पर्यन्तस्य जीवनप्रवासः बृहत्तमपटले प्रदर्शयिष्यते। कथायां भारतीयगुप्तचरव्यवस्थायाः विकासेन ‘रॉ’ इत्यस्य स्थापनया च सम्बद्धाः महत्त्वपूर्णाः घटनाक्रमाः समावेशयिष्यन्ते। एतदतिरिक्तं १९७१ तमे वर्षे भारतपाकिस्तानयोः मध्ये सम्पन्नस्य युद्धस्य तथा बाङ्ग्लादेशस्य गठनस्य च सम्बद्धेषु महत्त्वपूर्णेषु गुप्तचराभियानेषु काओ इत्यस्य भूमिकायाः अपि प्रकाशः भविष्यति।

निर्मातृणां कथनानुसारं चलचित्रस्य माध्यमेन ‘रॉ’ इत्यस्य प्रारम्भिककालस्य तथा तस्य पृष्ठतः कार्यं कुर्वतां जनानां कथां दर्शकेभ्यः प्रस्तोतुं प्रयत्नः क्रियते। करणजौहरः अस्याः परियोजनायाः विषये उत्साहं प्रकटयन् उक्तवान् यत् सः एताम् महत्त्वपूर्णां कथां बृहत्तमपटले आनयितुं उत्सुकः अस्ति। चलचित्रस्य प्रदर्शनं ‘रॉ’ इत्यस्य स्थापनायाः षष्टिवर्षपूर्तेः अवसरं लक्षीकृत्य भविष्यति तथा च संस्थायाः इतिहासाय समर्पितविशेषचलचित्रप्रस्तुतिरूपेण तत् प्रदर्शयिष्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani