लक्ष्मणराव-इनामदारस्य जयन्त्याम् अमितशाहेन प्रदत्ता श्रद्धाञ्जलिः
नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः सोमवासरे राष्ट्रसेवया, सङ्गठननिर्माणेन सहकारेण च समाजस्य सशक्तीकरणं कृतवतः लक्ष्मणराव-इनामदारस्य जयन्त्यां तस्मै नत्वा श्रद्धाञ्जलिं समर्पितवान्। शाहः सामाजिकमाध्य
प्रतीकात्मक


नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः सोमवासरे राष्ट्रसेवया, सङ्गठननिर्माणेन सहकारेण च समाजस्य सशक्तीकरणं कृतवतः लक्ष्मणराव-इनामदारस्य जयन्त्यां तस्मै नत्वा श्रद्धाञ्जलिं समर्पितवान्।

शाहः सामाजिकमाध्यमे ‘एक्स’ इत्यत्र लिखितवान्— “राष्ट्रसेवया, सङ्गठन-निर्माणेन सहकारेण च समाजस्य सशक्तीकरणं कृतवतः लक्ष्मणराव-इनामदारस्य जयन्त्यां तस्मै नत्वा अहं श्रद्धाञ्जलिं समर्पयामि। गुजरातराज्ये सहकारान्दोलनाय नूतनां दिशां गतिं च प्रदत्तवान् ‘वकीलसाहबः’ अभिभावकवत् अनेकान् कार्यकर्तॄन् निर्मितवान्। स्वातन्त्र्यसङ्ग्रामात् आरभ्य निजामस्य अत्याचाराणां आपात्कालस्य च विरुद्धं कृतानां सङ्घर्षाणां पर्यन्तं लक्ष्मणराव-इनामदारस्य जीवनं सर्वेभ्यः प्रेरणास्रोतः अस्ति।”

Hindusthan Samachar / Divya Ranjan