मध्यप्रदेशे रीवायाम् अद्य बलरामकृषिमहोत्सवः, मुख्यमन्त्री आभासीयमाध्यमेन सम्बोधयिष्यति
रीवा, २१ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशे आचर्यमाणस्य कृषिवर्ष-२०२६-स्य अन्तर्गतं कृषिं लाभदायकं व्यवसायं कर्तुं सर्वकारेण सञ्चाल्यमानानां योजनानां विषये कृषकान् सूचयितुं तथा प्राकृतिककृषेः प्रोत्साहनाय सोमवासरे बलरामकृषिमहोत्सवस्य आयोजनं क्रियत
सीएम मोहन यादव (फाइल फोटो)


रीवा, २१ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशे आचर्यमाणस्य कृषिवर्ष-२०२६-स्य अन्तर्गतं कृषिं लाभदायकं व्यवसायं कर्तुं सर्वकारेण सञ्चाल्यमानानां योजनानां विषये कृषकान् सूचयितुं तथा प्राकृतिककृषेः प्रोत्साहनाय सोमवासरे बलरामकृषिमहोत्सवस्य आयोजनं क्रियते।

कृषिउपनिदेशकः यू.पी. बागरी अवदत् यत् कार्यक्रमः पूर्वाह्णे ११:३० वादनतः कृषिउपजमण्डी करहियायां प्रारप्स्यते। कृषिमहोत्सवे सम्मिलितान् कृषकान् मुख्यमन्त्री डॉ. मोहनयादवः आभासीय-माध्यमेन सम्बोधयिष्यति। सम्मेलने राज्यसहकारी-एपेक्स-धनागारस्य प्रशासकः महेन्द्रसिंहयादवः अपि सम्बोधयिष्यति। उपनिदेशकः कृषकान् सम्मेलने भागं गृहीत्वा तस्य लाभं स्वीकर्तुं आह्वानं कृतवान्।

Hindusthan Samachar / Divya Ranjan