मुख्यमन्त्री मङ्गलवासरे बेङ्गलूरुनगरे दूरसञ्चारोद्योगस्य प्रमुखैः निवेशकैः सह संवादं करिष्यति
– ग्वालियरस्य दूरसञ्चारनिर्माणक्षेत्रं निवेशस्य नूतनं केन्द्रं कर्तुं सज्जता भोपालम्, २१ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशे दूरसञ्चार-विद्युन्मान-निर्माण-क्षेत्रयोः विकासाय राज्यसर्वकारः देशस्य प्रमुखे प्रौद्योगिककेन्द्रे बेङ्गलूरु-नगरे उद्योगजगत
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


– ग्वालियरस्य दूरसञ्चारनिर्माणक्षेत्रं निवेशस्य नूतनं केन्द्रं कर्तुं सज्जता

भोपालम्, २१ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशे दूरसञ्चार-विद्युन्मान-निर्माण-क्षेत्रयोः विकासाय राज्यसर्वकारः देशस्य प्रमुखे प्रौद्योगिककेन्द्रे बेङ्गलूरु-नगरे उद्योगजगतः प्रमुखैः सह प्रत्यक्षं संवादं करिष्यति। मुख्यमन्त्री डॉ. मोहनयादवः मङ्गलवासरे २२ सेप्टेम्बरमासे बेङ्गलूरुनगरे दूर-सञ्चारक्षेत्रस्य प्रमुखो-द्योगपतिभिः निवेशकैश्च निवेशकवृत्त-सभायां ग्वालियर-नगरे विकसित्यमाने दूरसञ्चारनिर्माणक्षेत्रे निवेशस्य सम्भावनानां विषये चर्चां करिष्यति।

जनसम्पर्काधिकारिणी बबितामिश्रा सोमवासरे अवदत् यत् ताज् बेङ्गलूरुनगरे आयोज्यमाने अस्मिन् संवादे मुख्यमन्त्री निवेशकेभ्यः ग्वालियर-दूरसञ्चार-निर्माणक्षेत्रे उपलब्धानां निवेशावसराणां, राज्यस्य औद्योगिकनीतिनां, राज्य-सर्वकारेण प्रदीयमानस्य सहयोगस्य च विषये सूचनां दास्यति। दूरसञ्चारोप-करणानां निर्माणेन सह अनुसन्धानस्य, नवाचारस्य, सम्बद्धोद्योगानां विस्तारस्य च सम्भावनासु अपि चर्चा भविष्यति।

ग्वालियरे दूरसञ्चारोद्योगाय नूतनाधारस्य निर्माणम्

निवेशकवृत्तसभायां ग्वालियर-दूरसञ्चार-निर्माणक्षेत्रस्य प्रमुखविशेषतानां निवेश-केभ्यः उपलब्धानां प्रोत्साहनानां च प्रस्तुतीकरणं भविष्यति। अपरमुख्यसचिवः नीरजमण्डलोई तथा दूरसञ्चारविभागस्य वरिष्ठाधिकारिणः क्षेत्रसम्बद्धान् निवेशा-वसरान् नीतिसहयोगं च निवेशकानां समक्षं स्थापयिष्यन्ति।

कार्यक्रमे दूरसञ्चारोद्योगस्य प्रमुख-निर्माणीनां प्रतिनिधयः स्वानुभवान् सहभागं कुर्वन्ति। क्षेत्रे निवेशेच्छूनाम् उद्योगानां प्रस्तावानाम् अपेक्षाणां च विषये अपि चर्चा भविष्यति। मुख्यमन्त्री निवेशकानां प्रश्नानां विचाराणां च विषये संवादं कुर्वन् मध्यप्रदेशे निवेशाय राज्यसर्वकारस्य प्रतिबद्धतां उपलब्धं सहयोगं च अवगमयिष्यति।

जनसम्पर्काधिकारिणी अवदत् यत् निवेशकवृत्तसभायां भारतसर्वकारस्य सञ्चार-पूर्वोत्तरक्षेत्रविकासमन्त्री ज्योतिरादित्यः एम. सिन्धिया अपि सम्मिलितः भविष्यति। केन्द्र-राज्य-सर्वकारयोः वरिष्ठाधिकारिणां उद्योग-जगतश्च सहभागितया आयोज्यमानः अयं संवादः ग्वालियर-दूरसञ्चार-निर्माण-क्षेत्रस्य विकासाय दूरसञ्चार-निर्माणक्षेत्रे च निवेशसम्भावनानां विस्ताराय महत्त्वपूर्णः भविष्यति।

बेङ्गलूरोः प्रौद्योगिककेन्द्राणाम् अव-लोकनं करिष्यति मुख्यमन्त्री

मुख्यमन्त्री डॉ. मोहनयादवः बेङ्गलूरु-प्रवासकाले दूरसञ्चार-प्रौद्योगिकीक्षेत्र-सम्बद्धानां प्रमुखसंस्थानानाम् अवलोकनम् अपि करिष्यति। सः क्वालकॉम इत्यस्य अनुसन्धान-विकासकेन्द्रं, सिग्नलचिप इनोवेशन तथा सिग्नलट्रॉन सिस्टम् इत्येतयोः केन्द्रयोः भ्रमणं करिष्यति। एतेषु केन्द्रेषु अनुसन्धानस्य, नवाचारस्य, दूरसञ्चारप्रौद्योगिक्याः च क्षेत्रेषु क्रियमाणानां कार्याणां विषये सूचनां प्राप्स्यति। एतेन बेङ्गलूरोः प्रौद्योगिकिपरितन्त्रस्य मध्यप्रदेशे विकसित्यमानस्य दूरसञ्चारनिर्माण-क्षेत्रस्य च मध्ये सम्भावितसहयोगावसरान् ज्ञातुं प्रयासः भविष्यति।

Hindusthan Samachar / Divya Ranjan