मध्यप्रदेशे उद्यानिकी-मूल्यशृङ्खलानां सुदृढीकरणविषये अद्य नीतिसंवादस्य आयोजनम्
उत्पादनात् प्रसंस्करणात् वित्तपोषणात् मूल्यवर्धनात् वैश्विकविपण्यपर्यन्तं प्रवेश-विषये भविष्यति मन्थनम् भोपालम्, २१ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशराज्यनीतिआयोगेन उद्यानिकी-खाद्यप्रसंस्करणविभागस्य सहयोगेन अद्य सोमवासरे भोपालनगरे “मध्यप्रदेशे उद
उद्यानिकी (प्रतीकात्मक तस्वीर)


उत्पादनात् प्रसंस्करणात् वित्तपोषणात् मूल्यवर्धनात् वैश्विकविपण्यपर्यन्तं प्रवेश-विषये भविष्यति मन्थनम्

भोपालम्, २१ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशराज्यनीतिआयोगेन उद्यानिकी-खाद्यप्रसंस्करणविभागस्य सहयोगेन अद्य सोमवासरे भोपालनगरे “मध्यप्रदेशे उद्यानिकी-मूल्यशृङ्खलानां सुदृढीकरणम्” इति विषये नीतिसंवादः आयोज्यते।

जनसम्पर्काधिकारिणा अनिलवशिष्ठेन सूचनां प्रदाय उक्तं यत् कार्यक्रमः प्रातः १० वादनतः एमपीटी-होटल-पलाश-रेसिडेन्सी इत्यस्य विमर्शसभागारे भविष्यति। अस्मिन् नीतिनिर्मातृभिः, विषयविशेषज्ञैः, वित्तीयसंस्थानां प्रतिनिधिभिः, उद्योगप्रतिनिधिभिः, कृषक-उत्पादक-सङ्गठनानां प्रतिनिधिभिः, स्वयंसेवीसंस्थानां प्रतिनिधिभिश्च उद्यानिकीक्षेत्रस्य समग्रविकासविषये विचारविमर्शः करिष्यते।

तेन उक्तं यत् कार्यक्रमे मध्यप्रदेश-राज्यनीतिआयोगस्य मुख्यकार्य-पालनाधिकारिणा स्वरोचिष सोमवंशिना स्वागतभाषणं प्रदास्यते। योजना-आर्थिक-सांख्यिकीविभागस्य सचिवः श्रीमन् शुक्लः प्रारम्भिकभाषणं दास्यति। अटल-बिहारी-वाजपेयी-सुशासन-नीति-विश्लेषण-संस्थानस्य उपाध्यक्षः प्रो. राजीवदीक्षितः तथा कृषि-उत्पादनायुक्तः उद्यानिकी-खाद्यप्रसंस्करण-विभागस्य अपरमुख्यसचिवः के.सी. गुप्तश्च विशेषसम्बोधनं करिष्यतः।

जनसम्पर्काधिकारिणः अनुसारम् उद्यानिकी-खाद्यप्रसंस्करणविभागस्य आयुक्तः सौरभकुमारसुमनः “मध्यप्रदेश-उद्यानिकी-२०२६ : जनपदवर्गीकरणं, कमोडिटी-क्लस्टरः, मूल्यशृङ्खलायाः न्यूनताश्च” इति विषये प्रस्तुतिं करिष्यति। सुशासन-नीति-विश्लेषण-संस्थानस्य सलाहकारः आमिरमनन्देवा उत्पादनात् समृद्धिपर्यन्तं प्रतिस्पर्धात्मकानां उद्यानिकी-मूल्यशृङ्खलानां निर्माणविषये, एपीडायाः क्षेत्रीयप्रमुखः निशान्तबंसोडः मूल्यवर्धनं, प्रसंस्करणं, ब्राण्डनिर्माणं तथा वैश्विकविपण्यपर्यन्तं प्रवेशविषये च प्रस्तुतिं करिष्यति।

नीतिसंवादे त्रयः पटलविमर्शाः भविष्यन्ति। प्रथमविमर्शे मध्यप्रदेशस्य उद्यानिकी-मूल्यशृङ्खलानां सम्भावनानां विषये, द्वितीये आधुनिककृष्यर्थं वित्तीय-संसाधनानां, योजनानां समन्वयस्य, प्रौद्योगिक्याः निजीविनिवेशस्य च विषये, तृतीये च प्रसंस्करणेन, मूल्यवर्धनेन, विपण्यसम्बद्धतया च उद्यानिकीविकासं गतिं दातुं विषये मन्थनं भविष्यति।

विमर्शेषु एपीडा, राष्ट्रिय-उद्यानिकी-मण्डलम्, एमपीआईडीसी, नाबार्ड, सेन्ट्रल-बैंक, डब्ल्यूआरआई-इण्डिया, पार्ले-एग्रो, डाबर, जैन-इरिगेशन, कृषिप्रौद्योगिकी-संस्थानानां, महिला-कृषक-उत्पादक-कम्पन्याः तथा विभिन्नानां स्वयंसेवी-सङ्गठनानां प्रति-निधयः भागं ग्रहीष्यन्ति। मुक्तविमर्शे भारतीयकृषि-अनुसन्धान-परिषदः, केन्द्रीय-कृषि-अभियांत्रिकी-संस्थानस्य, मौलाना-आजाद-राष्ट्रीय-प्रौद्योगिकी-संस्थानस्य, सूक्ष्म-लघु-मध्यम-उद्यमविभागस्य तथा उद्यानिकी-खाद्यप्रसंस्करणविभागस्य प्रतिनिधयः स्वविचारान् प्रस्तोष्यन्ति। कार्यक्रमस्य समापनावसरे राज्यनीति-आयोगस्य सलाहकारा डॉ. आकांक्षा चन्दा भाविकार्ययोजनां प्रस्तुतं करिष्यति।

/ अंशु गुप्ता