देशस्य नूतनं ‘अन्नभाण्डारं’ जातं मध्यप्रदेशम्, खाद्यान्नोत्पादने नूतनकीर्तिमानान् स्थापयति
भोपालम्, 21 सितम्बरमासः (हि.स.)।कदाचित् संसाधनानाम् अभावात्, सिञ्चनसङ्कटात् तथा मन्दविकासात् ‘रुग्णराज्यम्’ इति कथितं मध्यप्रदेशम् अद्य आत्मनिर्भरता, कृषिसमृद्धिः तथा तीव्रार्थिकप्रगतिः इत्येतासां पर्यायवाचकं जातम् अस्ति। प्रदेशसर्वकारस्य दूरदर्शिन
प्रतीकात्मक फोटो एआई


भोपालम्, 21 सितम्बरमासः (हि.स.)।कदाचित् संसाधनानाम् अभावात्, सिञ्चनसङ्कटात् तथा मन्दविकासात् ‘रुग्णराज्यम्’ इति कथितं मध्यप्रदेशम् अद्य आत्मनिर्भरता, कृषिसमृद्धिः तथा तीव्रार्थिकप्रगतिः इत्येतासां पर्यायवाचकं जातम् अस्ति। प्रदेशसर्वकारस्य दूरदर्शिनः नेतृत्वस्य कृषकाणां च अथकपरिश्रमस्य बलेन प्रदेशेन न केवलं स्वस्य विकासदरः २४ प्रतिशतं प्राप्तः, अपितु खाद्यान्नोत्पादने नूतनकीर्तिमान् स्थापयित्वा देशस्य ‘अन्नभाण्डारम्’ इति नूतना परिचितिरपि प्राप्ता अस्ति। राज्यसर्वकारः वर्षं २०२६ ‘कृषककल्याणवर्षम्’ तथा ‘रोजगाराधारितकृष्योद्योगविकासवर्षम्’ इति रूपेण आचरति, यस्य एकमेवोद्देश्यं प्रौद्योगिक्याः, नवाचारस्य तथा वैज्ञानिकपद्धतीनां माध्यमेन कृषकाणाम् आयस्य निरन्तरवृद्धिः करणम् अस्ति। मुख्यमन्त्री डॉ. मोहन यादवस्य मतम् अस्ति यत् भारतस्य आत्मा ग्रामेषु वसति तथा ग्रामाणाम् आत्मा कृषकेषु। यदा कृषकः सशक्तः भवति, तदैव प्रदेशः समृद्धेः शिखरं स्पृशति। मध्यप्रदेशस्य एषा विकासयात्रा अद्य सम्पूर्णदेशाय अनुकरणीयं प्रतिमानं जाता अस्ति।

प्रदेशस्य कृषिमन्त्री एदलसिंह कंषानः उक्तवान् यत् कृषकस्य सशक्तीकरणमेव प्रदेशस्य सर्वाङ्गीणविकासस्य आधारशिला अस्ति। अस्यैव सङ्कल्पस्य सह राज्यसर्वकारेण वर्षं २०२६ ‘कृषककल्याणवर्षम्’ इति रूपेण आचरितुं निर्णयः कृतः। ‘समृद्धकृषकः समृद्धप्रदेशः’ इत्यस्य दिशि कृषककल्याणवर्षे २०२६ प्रदेशे कृषिविकासस्य बहुआयामी प्रतिमानं निर्धारितम् अस्ति। अस्य अन्तर्गतं विविधाः बहुउद्देशीयाः क्रियाकलापाः समाविष्टाः सन्ति। मन्त्री कंषानः उक्तवान् यत् कृषिविभागेन कृषकाणां कल्याणाय विविधाः योजनाः क्रियाकलापाश्च सञ्चालिताः सन्ति।

खाद्यान्नोत्पादने देशे द्वितीयस्थाने मध्यप्रदेशः

मध्यप्रदेशः अधुना खाद्यान्नोत्पादने देशे द्वितीयस्थाने प्राप्तः अस्ति। गोधूमोत्पादने पञ्जाबहरियाणयोः इव पारम्परिककृषिसमृद्धराज्यानि पृष्ठतः स्थापयित्वा प्रदेशः देशस्य सर्वाधिकः गोधूमोत्पादकः जातः अस्ति। अस्मिन् वर्षे गोधूमस्य उत्पादनं वर्धित्वा ३६५.११ लक्षं मेट्रिकटनपरिमितं जातम्, यदा उत्पादकता प्रतिहेक्टेयरं ३,७८० किलोग्राम् इति अभिलिखिता अस्ति। देशस्य समग्रगोधूमोत्पादने मध्यप्रदेशस्य योगदानम् अष्टादशप्रतिशतं वर्तते। अन्तर्राष्ट्रीये विपण्येऽपि प्रदेशस्य गोधूमस्य महती मागधा अस्ति। भारतात् विदेशेषु निर्यात्यमाने गोधूमे प्रदेशस्य भागः ३५ तः ४० प्रतिशतपर्यन्तम् अस्ति। प्राकृतिकमधुरतायुक्तस्य शरबतीगोधूमस्य ड्यूरम्गोधूमस्य च मागधा जर्मनी, अमेरिका, यूके, इटली, दुबई तथा सऊदीअरब इत्यादिषु देशेषु वर्तते। एतदतिरिक्तं मध्यप्रदेशः देशस्य सर्वाधिकः प्रामाणिकबीजोत्पादकराज्यमपि अस्ति, यत्र त्रिलक्षाधिकाः कृषकाः बीजोत्पादककम्पनीभिः सम्बद्धाः सन्ति।

आधुनिकप्रौद्योगिक्या सस्यप्रबन्धनम्

कृषिक्षेत्रस्य आधुनिकप्रौद्योगिक्या सह संयोजनेन सस्यप्रबन्धनं अधिकं सटीकं, पारदर्शकं प्रभावकरं च क्रियमाणम् अस्ति। राज्यसर्वकारस्य ‘सारा’ तथा ‘उन्नति’ एग्रीजीआईएस् प्रणाल्योः माध्यमेन उपग्रहचित्राणां, ड्रोनसर्वेक्षणस्य तथा क्षेत्राणां वास्तविकचित्राणां कृत्रिमबुद्धेः यन्त्राधिगमस्य च माध्यमेन विश्लेषणं क्रियते। अनेन सस्यनिरीक्षणस्य उत्पादनानुमानस्य च वैज्ञानिकः आधारः प्राप्तः अस्ति। ‘उन्नति’ मञ्चस्य ‘सारा’ अनुप्रयोगस्य च माध्यमेन त्रिकोट्यधिकेषु भूमिखण्डेषु वपितानां सस्यानां डिजिटलमानचित्रणं कृतम् अस्ति। अद्यतनयोः रबीखरीफयोः ऋतूयोः अस्याः प्रणाल्याः माध्यमेन ५.३७ कोट्यधिकानां क्षेत्राणां चित्राणां विश्लेषणं कृतम्, येन तत्क्षणं सस्यपरिचयः सम्भवः अभवत्। अस्याः प्रौद्योगिकीयाः उपक्रमस्य कारणेन सस्यपरिचयस्य सटीकता वर्षे २०२२ मध्ये ६६ प्रतिशताद् वर्धित्वा वर्षे २०२५ मध्ये प्रायः ८५ प्रतिशतं प्राप्तवती। एषा प्रणाली प्राकृतिकापदां काले सस्यहान्याः सटीकमूल्याङ्कनं कर्तुं कृषकेभ्यः च शीघ्रं क्षतिपूर्तिं प्रदातुं अत्यन्तोपयोगिनी सिद्धा भवति।

रसायनमुक्तकृषौ विशेषः केन्द्रबिन्दुः

पर्यावरणहितैषिणीं प्राकृतिककृषिं प्रति च पदं वर्धयन् राज्यसर्वकारः रसायनमुक्तकृषेः प्रोत्साहनं करोति। देशे प्रचलितायां समग्रजैविककृषौ २७ प्रतिशतादधिकेन योगदानसह मध्यप्रदेशः सम्पूर्णदेशे प्रथमस्थाने वर्तते। राष्ट्रियप्राकृतिककृषिमिशनस्य अन्तर्गतं प्रदेशस्य १,५१३ समूहक्षेत्रेषु १.८९ लक्षं कृषकाः सम्बद्धाः कृताः सन्ति, प्राकृतिककृषिं कुर्वद्भ्यः कृषकेभ्यः च देशीगोपालनाय प्रतिमासं ९०० रूप्यकाणाम् अनुदानस्य प्रावधानं कृतम् अस्ति। अस्य प्रत्यक्षोदाहरणं खरगोनस्य जैविककृषिविशेषज्ञः अविनाशदाङ्गी अस्ति, यः स्वस्य ५४ एकरमिते क्षेत्रे ४० गोभिः सह पूर्णतया जैविककृषिं करोति तथा तस्य उत्पादाः देशस्य १३ राज्येषु प्रेष्यन्ते। तथैव श्वेतमूसलीकृषिं कुर्वन् अनिलवर्मा इत्यादयः कृषकाः राज्यसर्वकारस्य सहकारेण स्वकीयां आर्थिकस्थितिं सुदृढां कृतवन्तः।

कृषिक्षेत्रे नूतनानि शिखराणि स्पृशन् प्रदेशः

उद्यानिकी तथा सस्यविविधीकरणस्य क्षेत्रेऽपि मध्यप्रदेशः नूतनानि शिखराणि स्पृशति। प्रदेशः टमाटरस्य, धनियस्य तथा लशुनस्य उत्पादनं देशे प्रथमस्थाने करोति। प्रदेशे १.२७ लक्षाधिकेषु हेक्टेयरपरिमितेषु टमाटरस्य कृषिः क्रियते, यस्य सम्भावितं उत्पादनं ३६.९४ लक्षं मेट्रिकटनपरिमितम् अस्ति। अनूपपुरजनपदे एव १५ सहस्रकृषकैः अभिलेखीयं १.४० लक्षं मेट्रिकटनपरिमितं टमाटरस्य उत्पादनं कृतम् अस्ति। एतदतिरिक्तं ‘रानीदुर्गावती श्रीअन्नप्रोत्साहनयोजनायाः’ अन्तर्गतं कोद्रवकुटकी च उत्पादयद्भ्यः जनजातीयकृषकेभ्यः निर्धारितमूल्यस्य अतिरिक्तं प्रतिक्विण्टलं १,००० रूप्यकाणां प्रोत्साहनराशिः डीबीटीमाध्यमेन दीयते। देशस्य समग्रस्थूलधान्योत्पादने प्रदेशस्य भागः १२.१७ प्रतिशतं वर्तते, येन मध्यप्रदेशः मिलेट्सोत्पादने देशे तृतीयस्थाने प्राप्तः अस्ति।

पारदर्शकाः कृषकहितैषिण्यश्च व्यवस्थाः प्रवर्तिताः

राज्यसर्वकारेण कृषकेभ्यः प्रत्येकस्मिन् स्तरे साहाय्यं प्रदातुं पारदर्शकाः कृषकहितैषिण्यश्च व्यवस्थाः प्रवर्तिताः सन्ति। उर्वरकवितरणे दीर्घपङ्क्तीनां, कृष्णविक्रयस्य मध्यस्थजनानां च भूमिकां समाप्तुं डिजिटल ‘ईविकास’ प्रणाली सम्पूर्णप्रदेशे प्रवर्तिता अस्ति। सोयाबीनोत्पादकेभ्यः न्यूनतमसमर्थनमूल्यस्य लाभं प्रदातुं भावान्तरभुगतानयोजनायाः अन्तर्गतं ९ लक्षाधिकानां कृषकाणां पञ्जीकरणं कृतम् अस्ति। अस्मिन् वर्षे ७.६२ लक्षाधिकेभ्यः कृषकेभ्यः ५१.७५ लक्षं मेट्रिकटनपरिमितं धान्यं क्रीत्वा ९,४८५ कोटिरूप्यकेभ्यः अधिका राशि प्रदत्ता अस्ति। एतदतिरिक्तं परालीप्रबन्धनाय रीपर, बेलर तथा हैप्पीसीडर इत्यादीनां ७,००० कृषियन्त्राणां क्रयणे अनुदानं दीयते तथा स्वाइलहेल्थकार्डवितरणेऽपि मध्यप्रदेशः देशे शीर्षस्थाने वर्तते।

उल्लेखनीयं यत् जुलाईमासस्य १५ दिनाङ्कात् नवम्बरमासस्य १३ दिनाङ्कपर्यन्तं २०२६ तमे वर्षे आयोज्यमानेन बलरामकृषिमहोत्सवेन मुख्यमन्त्री डॉ. मोहन यादवः राज्यस्य विभिन्नेषु जनपदेषु कृषकैः सह प्रत्यक्षं संवादं करोति तथा तेभ्यः आधुनिककृषियन्त्राणां, ड्रोनप्रौद्योगिक्याः तथा जलसंरक्षणस्य विषये जागरूकतां जनयति। निरन्तरं सप्तवारं ‘कृषिकर्मणपुरस्कारं’ प्राप्तवान् मध्यप्रदेशः अद्य पारम्परिककृषेः सीमाः अतिक्रम्य उच्चप्रौद्योगिकीयां, वैज्ञानिकां तथा निर्यातोन्मुखीं कृषिव्यवस्थां प्रति तीव्रगत्या अग्रे गच्छति।

---------------

Hindusthan Samachar / Dheeraj Maithani