राष्ट्रीयचलच्चित्रपुरस्कारः ५५ वर्षेभ्यः परं दिल्लीतः बहिः एकतानगरे भारतीयचलच्चित्रस्य मञ्चः सज्जितः भविष्यति
एकतानगरम्, २१ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियचलच्चित्रपुरस्काराणां सप्तति-वर्षाधिके इतिहासे मङ्गलवासरे, २२ सेप्टेम्बरमासे, नवीनमध्यायः योजितः भविष्यति। देशस्य राजधानीं नवदिल्लीं विहाय द्वितीयवारं तथा गुजरातराज्ये प्रथमवारं द्विसप्ततितमस्य राष्ट्र
प्रतीकात्मक


एकतानगरम्, २१ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियचलच्चित्रपुरस्काराणां सप्तति-वर्षाधिके इतिहासे मङ्गलवासरे, २२ सेप्टेम्बरमासे, नवीनमध्यायः योजितः भविष्यति। देशस्य राजधानीं नवदिल्लीं विहाय द्वितीयवारं तथा गुजरातराज्ये प्रथमवारं द्विसप्ततितमस्य राष्ट्रियचल-च्चित्रपुरस्कारसमारोहस्य आयोजनं क्रियमाणम् अस्ति। गुजरातस्य नर्मदाजनपदस्य एकतानगरे आयोज्यमाने अस्मिन् समारोहे राष्ट्रपतिः द्रौपदीमुर्मू भारतीयचलच्चित्रस्य दिग्गजकलाकारान् प्रतिष्ठितैः पुरस्कारैः सम्मानयिष्यति। ततः पूर्वं दिल्लीतः बहिः प्रथमः एकमात्रश्च राष्ट्रियचलच्चित्रपुरस्कारसमारोहः ५५ वर्षपूर्वं, १९७१ तमे वर्षे, तमिलनाडुराज्यस्य चेन्नईनगरे (तदानीं मद्रास इति नाम्ना प्रसिद्धे) आयोजितः आसीत्।

सूचनाप्रसारणमन्त्रालयस्य एकेन वरिष्ठाधिकारिणा सोमवासरे उक्तं यत् भारतीयचलच्चित्रं विविधभाषाणां, कलानां संस्कृतिनां च प्रतिनिधित्वं कुर्वत् ‘अनेकतायाम् एकता’ इत्यस्य उत्कृष्टतमम् उदाहरणं प्रस्तुतयति। अत एव अस्मिन् वर्षे देशस्य एकतायाः प्रतीकस्थलम् ‘एकतानगरम्’ अस्य समारोहस्य कृते चितम् अस्ति। अधिकारिणा स्पष्टं कृतं यत् भविष्ये राष्ट्रियचलच्चित्रपुरस्कारसमारोहं देशस्य अन्येषु प्रमुखनगरेष्वपि आयोजयितुं योजना अस्ति। तदतिरिक्तं दिल्लीस्थितं पारम्परिकस्थलं ‘विज्ञानभवनम्’ अधुना ‘सेन्ट्रलविस्टा’ परियोजनायाः भागः भविष्यति, यस्य परिशिष्टभवनं ध्वस्तं कृतम् अस्ति।

समारोहस्य भव्यतां दृष्ट्वा एकतानगरे जर्मन-एल्युमिनियम-प्रौद्योगिक्या निर्मितः सहस्रासन्दनक्षमतायुक्तः विशेषः वातानुकूलितः अस्थायीसभागारः सज्जीकृतः अस्ति। अस्य ऐतिहासिक-क्षणस्य साक्षिणः भवितुं देशस्य विभिन्नेभ्यः भागेभ्यः चलच्चित्रकलाकाराः, निर्मातारः, निर्देशकाः, सङ्गीतकाराः, गीतकाराः, चलच्चित्रसमीक्षकाः, माध्यम-कर्मिणश्च एकतानगरं प्राप्नुवन्ति।

‘एकतानगरम्’ इति नाम्नः यात्राः

नर्मदानद्याः तीरे सतपुडाविन्ध्यपर्वतयोः मध्ये स्थितं केवडियाग्रामं कदाचित् लघु-आदिवासीग्रामम् आसीत्। १९६१ तमे वर्षे नर्मदाबन्धस्य निर्माणस्य समये षण्णां ग्रामाणां भूमिः अधिगृहीता तथा कर्मचारिणां कृते ‘केवडियाकॉलोनी’ इति नाम्ना वसाहतिः स्थापिता। तत्कालीन-प्रधानमन्त्रिणा पण्डितजवाहरलाल-नेहरूवर्येण प्रारम्भिककाले अस्याः ‘नवागावबन्धः’ इति नाम प्रदत्तम् आसीत्।

गुजरातस्य तत्कालीनमुख्यमन्त्रिणा वर्तमानप्रधानमन्त्रिणा च नरेन्द्रमोदिना २०१० तमे वर्षे सरदारपटेलस्य विशालप्रतिमायाः स्थापनायाः घोषणा कृता। २०१३ तमे वर्षे ‘सरदार-वल्लभभाईपटेलनेशनलयुनिटीट्रस्ट’ इत्यस्य गठनं कृत्वा देशस्य विभिन्नेभ्यः भागेभ्यः लौहदानं सङ्कलितम् तथा ७ अक्तूबर २०१३ दिनाङ्के अस्याः प्रतिमायाः आधारशिला स्थापिता।

प्रख्यातमूर्तिकारः स्वर्गीयः रामः वी. सुतारः द्वारा अभिकल्पितायाः १८२ मीटर-उन्नतायाः ‘स्टैच्यू ऑफ यूनिटी’ इत्यस्याः प्रतिमायाः उद्घाटनं ३१ अक्तूबर २०१८ दिनाङ्के प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्।

स्वतन्त्रभारतस्य संस्थानानां विलयं कृत्वा देशं सूत्रेण एकीकृतवता देशस्य प्रथमगृहमन्त्रिणा सरदारवल्लभभाई-पटेलेन सम्मानार्थं सम्पूर्णस्य विकसितस्य पर्यटनक्षेत्रस्य नाम परिवर्त्य ‘एकता-नगरम्’ इति कृतम्। एतत् वडोदरानगरात् प्रायः ८० किलोमीटरमिते दूरे स्थितम् अस्ति।

Hindusthan Samachar / Divya Ranjan