Enter your Email Address to subscribe to our newsletters

काठमांडूः, 21 सितंबरमासः (हि.स.)।
नेपालस्य प्रतिनिधिसभया राष्ट्रियसेवादलविधेयकं सर्वसम्मत्या पारितम्। सोमवासरे सदनस्य उपवेशनकाले कानूनन्यायसंसदीयकार्याणां मन्त्री सोविता गौतमः विधेयकस्य पारणाय प्रस्तावं प्रस्तुतवती, यः सर्वसम्मत्या अनुमोदितः।
एतत्पूर्वं विधेयकस्य विषये राज्यव्यवस्थासुशासनसमित्याः प्रतिवेदनस्य आधारेण चर्चा कृता। चर्चायां उपस्थितानां प्रश्नानाम् उत्तरं ददती मन्त्री गौतमः उक्तवती यत् विधेयके बालकानां अधिकाराणां हितानां च प्राथमिकता प्रदत्ता अस्ति। मन्त्री गौतमः स्पष्टं कृतवती यत् नेपालसर्वकारः यदा आवश्यकतां मन्यते तदा राष्ट्रियावश्यकतायाः आधारेण कमपि नेपालीं नागरिकं वा संस्थां वा राष्ट्रियसेवादलस्य माध्यमेन प्रशिक्षणं दातुं तथा राष्ट्रसेवायां नियोजयितुं शक्नोति, इत्यस्य व्यवस्था विधेयके कृता अस्ति।
सा उक्तवती यत् विधेयकस्य मूलोद्देश्यं बालकानाम् अधिकारान् सर्वोपरि स्थापयित्वा सर्वेषां क्रियाकलापानां सञ्चालनम् अस्ति। सा उक्तवती यत् संविधानस्य सीमाम् अतिक्रम्य किमपि विधिं निर्मातुं न शक्यते। राष्ट्रियसेवादलसम्बद्धमिदं विधेयकमपि बालकानां हितं केन्द्रे स्थापयित्वा निर्मितम् अस्ति। मन्त्रिण्याः अनुसारं सेवादले प्रशिक्षणं गृह्णतां बालकानां मानसिकक्षमता शारीरिकक्षमता च अपि ध्याने स्थापयिष्यते तथा प्रशिक्षणाय निर्धारितानां मानदण्डानां पालनं करणीयं भविष्यति।
विधेयके विद्यार्थिभ्यः तेषां सम्बन्धितविद्यालयेषु तथा राष्ट्रियसेवादलस्य शिक्षणसंस्थासु प्रशिक्षणं प्रदातुं प्रावधानं कृतम् अस्ति। प्रशिक्षणं पूर्णवतां विद्यार्थिनां सार्वजनिकसेवायां, आधारभूतसंरचनायाः विकासे, आपदाप्रबन्धने, महामारीनियन्त्रणे तथा पर्यावरणसंरक्षणे इत्यादिषु क्षेत्रेषु स्वयंसेवकरूपेण नियोजनं कर्तुं शक्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani