Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। केन्द्रसर्वकारेण हरियाणाराज्यस्य कुरुक्षेत्र-आईटीआई-समूहाय ३२० कोटिरूप्यकाणां रणनीतिकनिवेशयोजना अनुमोदिता। अस्याः योजनायाः अन्तर्गतं सप्त शासकीयानाम् औद्योगिकप्रशिक्षण-संस्थानानाम् उन्नयनं करिष्यते। परियोजनायां जिन्दल नवीन अवसर लिमिटेड् इति निर्माणी उद्योगसहभागिरूपेण हरियाणासर्वकारेण सह मिलित्वा कार्यं करिष्यति।
कौशलविकास-उद्यमितामन्त्रालयस्य अनुसारं राष्ट्रियसञ्चालनसमित्या पीएम-सेतू-योजनायाः अन्तर्गतम् एषा निवेश-योजना अनुमोदिता। अनेन सह योजनायाः अन्तर्गतं अनुमोदितस्य कुलनिवेशस्य राशिः २,४९१ कोटिरूप्यकाणि अभवत्, यत् देशस्य १० आईटीआई-समूहेषु व्ययितं भविष्यति।
कुरुक्षेत्र-समूहे राजकीय-आईटीआई-कुरुक्षेत्रं मुख्यसंस्थानरूपेण विकसितं भविष्यति। तेन सह राजकीयमहिला-आईटीआई-कुरुक्षेत्रम्, राजकीय-आईटीआई-कैथलम्, राजकीयमहिला-आईटीआई-कैथलम्, राजकीय-आईटी-आई-पिहोवा, राजकीय-आईटीआई-पबनावा तथा राजकीयमहिलाआईटीआई-अम्बालानगरम् सहायकसंस्थानरूपेण विकसितानि भविष्यन्ति।
केन्द्रीयकौशलविकास-उद्यमिता-राज्यमन्त्री (स्वतन्त्रप्रभारः) जयन्तचौधरी अवदत् यत् उद्योगानाम् आईटीआई-संस्थानैः सह संयोजनेन युवभ्यः रोजगारस्य श्रेष्ठाः अवसराः निर्मिताः भविष्यन्ति। अस्याः अनुमोदनस्य माध्यमेन कौशलविकासकार्यक्रमाः उद्योगानाम् आवश्यकतानुसारम् अधिकं अनुरूपाः कर्तुं शक्यन्ते तथा युवभ्यः व्यावहारिक-प्रशिक्षणं, अनुभवः, रोजगाराव-सराश्च प्राप्स्यन्ति इति सः अवदत्।
मन्त्रालयेन उक्तं यत् ३२० कोटिरूप्यकाणां निवेशेन प्रशिक्षणसंरचना सुदृढा करिष्यते, आधुनिकप्रयोगशालाः सुविधाश्च विकसिताः भविष्यन्ति, उद्योगानाम् आवश्यकतानुसारं नवीनपाठ्यक्रमाः प्रारब्धाः भविष्यन्ति तथा प्रशिक्षूणां रोजगारक्षमता वर्धिष्यते।
जिन्दल नवीन अवसर लिमिटेड् इति निर्माणी पूर्वमेव ओडिशाराज्यस्य बारबिल-आईटीआई-समूहेन सह सम्बद्धा अस्ति, यत्र २४० कोटिरूप्यकाणां रणनैतिक-निवेशयोजना अनुमोदिता अस्ति। मन्त्रालयस्य अनुसारम् उद्योगानां वर्धमाना सहभागिता पीएम-सेतू-योजनायाः प्रति निजीक्षेत्रस्य विश्वासं प्रदर्शयति।
उल्लेखनीयं यत् पीएम-सेतू-योजनायाः परिमाणं ६०,००० कोटिरूप्यकाणि अस्ति। अस्याः योजनायाः अन्तर्गतं सम्पूर्णदेशे १,००० शासकीय-आईटीआई-संस्थाना-नाम् उन्नयनं करिष्यते, येषु २०० मुख्यसंस्थानानि ८०० सहायकसंस्थानानि च भविष्यन्ति। योजनायां राष्ट्रियकौशल-प्रशिक्षणसंस्थानानां क्षमतां वर्धयितुं तथा विविधेषु क्षेत्रेषु उत्कृष्टताकेन्द्राणि स्थापयितुं च प्रावधानमपि अस्ति।
Hindusthan Samachar / Divya Ranjan