Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे ‘एक्स’ इत्यत्र प्रकाशिते सुभाषिते ‘क्षमायाः’ मानसिकशान्तेः सर्वोत्तमं साधनत्वेन उल्लेखं कृतवान्।
प्रधानमन्त्रिणा नरेन्द्रमोदिना संस्कृतश्लोकः प्रकाशितः। सः लिखितवान्—
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा।
विद्यैका परमा तृप्तिरहिंसैका सुखावहा॥
अस्य श्लोकस्य भावार्थः अस्ति यत् धर्मः मनुष्यं कल्याणस्य उन्नतेश्च मार्गे अग्रे नयति। क्षमा मानसिकशान्तेः सर्वोत्तमं साधनम् अस्ति। विद्या एव वास्तविक-सन्तोषस्य मूलाधारः अस्ति तथा अहिंसा संसारे स्थायिसुखं प्रददाति। अतः मनुष्यः एतान् गुणान् स्वजीवने आत्मसात् कृत्वा स्वजीवनं श्रेष्ठं, शान्तं, आनन्दमयं च कर्तुं शक्नोति।
Hindusthan Samachar / Divya Ranjan