‘प्रभातग्राम’ कार्यशालायाः समापनम्, ३० ग्रामेभ्यः २०५ कार्यकर्तारः सहभागिनः
प्रतापगढम्, २१ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य चित्तौडप्रान्तस्य तत्त्वावधाने बसेरानगरे आयोजिता त्रिदिवसीया प्रान्तस्तरीया ‘प्रभातग्राम’ कार्यशाला सम्पन्ना। समापनसत्रं सम्बोधयन् सङ्घस्य सहसरकार्यवाहः आलोककुमारः ग्रामाणां विकासाय आ
कार्यशाला


प्रतापगढम्, २१ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसङ्घस्य चित्तौडप्रान्तस्य तत्त्वावधाने बसेरानगरे आयोजिता त्रिदिवसीया प्रान्तस्तरीया ‘प्रभातग्राम’ कार्यशाला सम्पन्ना। समापनसत्रं सम्बोधयन् सङ्घस्य सहसरकार्यवाहः आलोककुमारः ग्रामाणां विकासाय आधुनिकप्रौद्योगिक्याः, श्रमस्य, जैविक-कृषेः सामाजिकसहभागितायाश्च समन्वयस्य आवश्यकता इति प्रतिपादितवान्। आलोककुमारः अवदत् यत् नववंशस्य रुचिं प्रकृतिं च ध्यात्वा ग्रामीणविकासयोजनानां नियोजनं करणीयम्।

सः अवदत् यत् कस्यापि सत्कार्यस्य प्रारम्भे विरोधाः कठिनताश्च भवन्ति, किन्तु निरन्तरप्रयत्नेन एताः बाधाः अतिक्रम्य सफलता प्राप्तुं शक्यते। समाजे स्थायिपरिवर्तनाय क्रमशः कार्यं कर्तुं आवश्यकता अस्ति। ग्रामाणां विकासाय आधुनिकप्रौद्योगिक्याः श्रमस्य च समुचितः समन्वयः आवश्यकः। ग्रामेषु विद्यमानाः तकनीकीविशेषज्ञाः सम्मानं अवसरं च प्राप्नुयुः। ग्रामविकाससमितीनां शासकीय-योजनानां पूर्णा सूचना भवेत्, येन पात्रजनाः तासां योजनानां लाभं प्राप्तुं शक्नुयुः। दिव्याङ्गानां, वृद्धानां अन्येषां च आवश्यकताग्रस्तानां जनानां योजनाभिः सह संयोजने ग्रामविकाससमितयः महत्त्वपूर्णां भूमिकां निर्वोढुं शक्नुवन्ति।

आलोककुमारः ग्रामविकाससमितिषु महिलानां सक्रियसहभागितां वर्धयितुं बलं दत्तवान्। सः अवदत् यत् येषु कार्येषु महिलानां सहभागिता भवति, तानि अधिकप्रभावेण अग्रे वर्धन्ते। महिलानां सक्रियसहभागिता ग्रामीणविकासाय नूतनां गतिं दातुं शक्नोति। कृषकेभ्यः जैविककृषेः प्रोत्साहनस्य आह्वानं कुर्वन् सः अवदत् यत् तस्याः आरम्भः परिवारादेव भवेत्। रासायनिकप्रयोगान् शनैः शनैः न्यूनीकृत्य अरासायनिक-जैविककृषेः दिशि पदक्षेपं कर्तुं आवश्यकता अस्ति। सः अवदत् यत् भारतस्य ग्रामीणार्थव्यवस्था पूर्वं स्वावलम्बिनी आसीत् तथा च ग्रामेष्वेव अनेकेषां आवश्यकवस्तूनां निर्माणं भवति स्म। वर्तमानकाले आवश्यकता न तु पूर्वकालं प्रति प्रत्यावर्तनस्य, अपितु आधुनिकसुविधासम्पन्नानां स्वावलम्बिनां सक्षमग्रामाणां निर्माणस्य अस्ति।

कार्यशालायां सूचितं यत् ‘प्रभातग्राम’ योजनायाः अन्तर्गतं ग्रामेषु सामाजिकशिक्षा-संस्काराः, सामाजिक-स्वास्थ्यं, सामाजिकसमरसता, सामाजिक-स्वावलम्बनम्, सामाजिकसुरक्षा, गो-आधारितजैविककृषिः, पर्यावरणसंरक्षणम् इत्येतेषु सप्तसु आयामेषु निरन्तरं कार्यं क्रियते। एतेषु न्यूनातिन्यूनं चतुराणाम् आयामानां प्रभावीकार्यस्य अनन्तरं प्रान्तटोलीद्वारा निरन्तरं निरीक्षणस्य आधारेण ग्रामं ‘प्रभातग्रामम्’ इति घोषितं क्रियते। त्रिदिवसीयायां कार्यशालायां ३० प्रभातग्रामेभ्यः २०५ कार्यकर्तारः सहभागिनः अभवन्।

कार्यकर्तॄणां निवासव्यवस्था अपि ग्रामपरिवाराणां मध्ये कृता आसीत्, येन तेभ्यः ग्रामीणजीवनं ग्रामविकाससम्बद्धाः गतिविधयश्च समीपतः अवगन्तुम् अवसरः प्राप्तः।

Hindusthan Samachar / Divya Ranjan