Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २१ सेप्टेम्बरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मू अद्य, श्वः परश्वश्च अर्थात् २१, २२ तथा २३ सेप्टेम्बरमासेषु गुजरातस्य यात्रां करिष्यति। राष्ट्रपतिसचिवालयस्य अनुसारं राष्ट्रपतिः त्रिदिवसीययात्रायाः अवधौ २२ सेप्टेम्बरमासे केवडियास्थिते एकतानगरे ७२तमं राष्ट्रियचलचित्र-पुरस्कारं प्रदास्यति।
राष्ट्रपतिसचिवालयस्य अनुसारं सा २३ सेप्टेम्बरमासे वडोदरायां महाराजा-सयाजीरावविश्वविद्यालयस्य ७५तमस्य वार्षिकदीक्षान्तसमारोहे सहभागं करिष्यति। सा ब्रह्माकुमारीसंस्थायाः ‘विश्वस्य नव-निर्माणाय आध्यात्मिक-जागरणम्’ इति अभियानस्य शुभारम्भं तथा ‘ग्लोबल स्पिरिचुअल पैलेस’ इति विश्रान्तिकेन्द्रस्य उद्घाटनं करिष्यति।
अस्मिन् अवसरे राष्ट्रपतिः ब्रह्माकुमारी-संस्थायाः नडियाद्-केन्द्रस्य ‘विकसित-भारताय युवानः—राष्ट्रनिर्माणाय आन्तरिकशक्तेः जागरणम्’ इति अभियानस्य अपि आभासीयशुभारम्भं करिष्यति।
Hindusthan Samachar / Divya Ranjan