Enter your Email Address to subscribe to our newsletters

– मातुरपमानं न सह्यते : विष्णुदेवसायेन भावुककवितायाः पङ्क्तयः सहभागकृताः, राहुलगान्धिनं नामोल्लेखं विना उपदिष्टवान्
रायपुरम्, २१ सेप्टेम्बरमासः (हि.स.)। छत्तीसगढस्य मुख्यमन्त्री विष्णुदेवसायः मातुः प्रति सम्मानस्य भारतीयसंस्कृतौ मातुः सर्वोच्चस्थानस्य च उल्लेखं कुर्वन् सोमवासरे सामाजिकमाध्यमे भावपूर्णं दृश्यकलिकाचित्रं सहभागं कृतवान्। मुख्यमन्त्रिणा स्वभावनाः कवितायाः पङ्क्तिभिः अभिव्यज्य सामाजिकमाध्यमे लिखितम्—
माता ममता, माता करुणा, माता जीवनस्य आधारः।
मातुः चरणयोः समर्पितमिदं समग्रं संसारम्।यः मातरमवमन्यते सः कुपुत्र एव कथ्यते,यः मातरं तिरस्करोति सः कुत्रापि आश्रयं न प्राप्स्यति।”
मुख्यमन्त्री सायः कस्यापि राजनैतिक-व्यक्तेः नामोल्लेखं विना स्वसन्देशस्य माध्यमेन मातुः प्रति सम्मानं मर्यादां च संरक्षितुं शिक्षां दत्तवान्। सः एतं सन्देशं तस्मिन् समये सहभागं कृतवान्, यदा इन्दौरे आयोजिते ‘छात्राणां गुञ्जनम्’ इति कार्यक्रमे हास्यप्रस्तुतिं प्रति राजनैतिकविवादः प्रचलति।
उल्लेखनीयं यत् इन्दौरे आयोजिते उक्तकार्यक्रमे लोकसभायां प्रतिपक्षनेता राहुलगान्धिनः उपस्थितौ हास्यकलाकारः पुलकितमणिः प्रधानमन्त्रिण: नरेन्द्र-मोदिनः वक्तृत्वशैलीं हावभावांश्च अनुकरणेन प्रस्तुतवान्। प्रस्तुत्याः एकस्मिन् भागे प्रधानमन्त्रीमोदीना सार्वजनिककार्यक्रमस्य समये जनसमूहे उपस्थितायै वृद्धायै मातुः कृते आसन्दस्य व्यवस्थां कर्तुं कथितेन प्रसङ्गेन सम्बद्धः अंशोऽपि समाविष्टः आसीत्। एतं प्रति भाजपादलस्य अनेकैः नेतृभिः तीव्रा आपत्तिः प्रकटिता तथा च आरोपितं यत् हास्यस्य नाम्ना माता मातृशक्तिश्च अनादरिता अस्ति। कार्यक्रमस्य समये राहुलगान्धी मञ्चे उपस्थितः आसीत् तथा च प्रस्तुतिं प्रति तस्य प्रतिक्रियामधिकृत्यापि राजनैतिक-चर्चा तीव्रतरा अभवत्।
अस्यैव घटनाक्रमस्य मध्ये मुख्यमन्त्री विष्णुदेवसायस्य मातुः महिम्नः सम्मानस्य च समर्पितः सन्देशः पुरतः आगतः। मुख्यमन्त्रिणा स्वसन्देशे राजनैतिकारोप-प्रत्यारोपाणां स्थाने मातुः प्रति भारतीयसमाजस्य श्रद्धा, संवेदना, संस्काराश्च केन्द्रे स्थापिताः।
मुख्यमन्त्रिणा स्वर्गीयकविना ओमव्यासेन मातरमधिकृत्य रचितायाः प्रसिद्धायाः काव्यरचनायाः दृश्यकलिकाचित्रमपि साझीकृतम्। मातुः त्यागं, ममतां, वात्सल्यं सन्तानस्य जीवने तस्याः अतुलनीयस्थानं च अभिव्यञ्जयन्ती एषा रचना सामाजिकमाध्यमेषु जनानां ध्यान-माकर्षति।
मुख्यमन्त्रिणः सन्देशस्य भावः स्पष्टः अस्ति यत् माता केवलं सम्बन्धः न, अपि तु ममता, करुणा, त्यागः संस्कारश्च इत्येषां स्वरूपम् अस्ति। भारतीयसंस्कृतौ मातुः सर्वोच्चं स्थानं प्रदत्तम् अस्ति तथा तस्याः सम्मानं सामाजिक-सांस्कृतिकमर्यादायाः अभिन्नः भागः अस्ति। वैचारिकाः अथवा राजनैतिकाः मतभेदाः स्वस्थानं भजेरन्, तथापि मातुः प्रति सम्मानस्य मर्यादा सर्वदा अक्षुण्णा भवेत्।
मुख्यमन्त्रिणा सहभागीकृताः पङ्क्तयः एतामेव सांस्कृतिकचेतनाम् अभि-व्यञ्जयन्ति यत् यस्याः मातुः स्नेहेन, त्यागेन संस्कारैश्च व्यक्तेः जीवनं आकारं प्राप्नोति, तस्याः सम्मानं प्रत्येकं व्यक्तेः नैतिकदायित्वम् अस्ति।
मुख्यमन्त्रिणा विष्णुदेवसायेन सामाजिक-माध्यमे प्रसारितं दृश्यकलिकाचित्रम्।
/ अंशु गुप्ता