Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 21 सितंबरमासः (हि.स.)।
केन्द्रीयः कोयलाखनिमन्त्री जी. किशनरेड्डी सोमवासरे भारताय महत्त्वपूर्णानां सामरिकखनिजानां संरक्षणाय उत्तमपुनर्चक्रणस्य, नवाचारस्य जनसहभागितायाश्च महत्त्वं प्रतिपादितवान्। जी. किशनरेड्डी नवदिल्ल्यां मटेरियल रीसाइक्लिंग एसोसिएशन ऑफ इंडिया इत्यस्य पक्षतः आयोजिते राष्ट्रियसम्मेलने सम्बोधयन् एतत् उक्तवान्। कोयलाखनिमन्त्रिणा ‘महत्त्वपूर्णखनिजानां पुनर्चक्रणस्य पारिस्थितिकीतन्त्रम्’ इति संकल्पपत्रम् औपचारिकरूपेण प्रकाशितम्।
केन्द्रीयमन्त्रिणा एतदपि बलं दत्तं यत् महत्त्वपूर्णखनिजानां सुरक्षां प्राप्तुं तकनीकीनवाचारस्य, बृहत्प्रमाणेन पुनर्चक्रणस्य तथा ‘जनसहभागितायाः’ सम्मिलितनीतेः आवश्यकता अस्ति। केन्द्रीयः कोयलाखनिमन्त्री अभिनवप्रौद्योगिक्याः, उद्यमशीलतायाः, ईअपशिष्टप्रबन्धनस्य तथा पर्यावरणस्य स्थिरतायाः महत्त्वं प्रकाशयत्।
‘जनसहभागितायाः’ महत्त्वे बलं दत्त्वा सः नागरिकान् ईअपशिष्टं तथा उपयोगानन्तरं परित्यक्तानि उत्पादानि महत्त्वपूर्णखनिजानां पुनर्प्राप्त्यर्थं मूल्यवन्तः संसाधनरूपेण द्रष्टुम् आग्रहं कृतवान्। सः कम्पनीभ्यः, उद्योगसम्बद्धेभ्यः जनेभ्यः तथा अनुसन्धानकर्तृभ्यः स्वविचारान्, सुझावान् प्रतिक्रियाश्च साझीकर्तुं तथा ‘विकसितभारतस्य’ दिशि सुदृढं, स्थायि, प्रौद्योगिक्याधारितं च पुनर्चक्रणपारिस्थितिकीतन्त्रं निर्मातुं समन्वितरूपेण कार्यं कर्तुम् आह्वानं कृतवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani