Enter your Email Address to subscribe to our newsletters

टोक्यो, 21 सितंबरमासः (हि.स.)।
भारतं जापानं च मङ्गलवासरे २२ सितम्बरदिनाङ्के सुजुकीकपे प्रथमवारं पुरुषाणां टी२० अन्तर्राष्ट्रीयप्रतियोगितायां परस्परं सम्मुखीभविष्यतः। तोचिगीप्रान्तस्य सानो अन्तर्राष्ट्रीयक्रिकेटक्रीडाङ्गणे आयोज्यमाना एषा ऐतिहासिकी प्रतियोगिता भारतजापानयोः राजनयिकसम्बन्धानां पञ्चसप्ततितमवर्षपूर्तेः समारोहस्य प्रारम्भस्य भागः अपि भविष्यति। प्रतियोगिता भारतीयसमयानुसारं प्रातः ९.३० वादने आरप्स्यते तथा अस्याः प्रत्यक्षप्रसारणं स्टार स्पोर्ट्स नेटवर्क इत्यस्य माध्यमेन भविष्यति।
टी२० विश्वविजेता भारतीयदलम् अर्वाचीनकाले प्राप्तां श्रृङ्खलाविजयम् अनन्तरं जापाने क्रीडाङ्गणे अवतरिष्यति। एषा प्रतियोगिता जापानस्य क्रीडकानां कृते विश्वस्य शीर्षस्थटी२० दलानाम् अन्तर्भूतस्य भारतस्य विरुद्धं क्रीडितुं महत्त्वपूर्णः अवसरः भविष्यति। अपरतः भारतीयदलमपि जापाने स्वप्रतिभां प्रदर्शयन् स्वस्य उत्कृष्टं क्रीडारूपं निरन्तरं धारयितुं प्रयतिष्यते।
भारतस्य पक्षतः कप्तानः श्रेयस अय्यरः, अभिषेकशर्मा, सञ्जूसैमसनः, जसप्रीतबुमराहः तथा ईशानकिशनः इत्यादयः अनेकाः प्रमुखाः क्रीडकाः क्रीडाङ्गणे दृश्यन्ते। जापानस्य क्रीडकानां पुरतः भारतीयदलस्य सुदृढा चुनौती भविष्यति।
सुजुकीकपः केवलं क्रिकेटप्रतियोगितायाः पर्यन्तं सीमितः नास्ति। अयं जापाने क्रिकेटक्रीडायाः वर्धमानं लोकप्रियत्वं तथा भारतजापानयोः मध्ये क्रीडामाध्यमेन सुदृढीभवन्तं सम्बन्धं च रेखाङ्कयिष्यति। एषा प्रतियोगिता ‘स्पोर्ट ७५’ इत्यस्य उपक्रमस्य प्रथमं चरणं भविष्यति, यस्य उद्देश्यम् उभयोः देशयोः मध्ये जनानाम् आदानप्रदानं सहकारं च वर्धयितुम् अस्ति।
भारतजापानयोः मध्ये प्रथमवारं टी२० अन्तर्राष्ट्रीयप्रतियोगिता, वर्तमानविश्वविजेतुः भारतीयदलस्य सहभागिता तथा उभयोः देशयोः राजनयिकसम्बन्धानां पञ्चसप्ततितमवर्षपूर्तेः समारोहः इत्येतानि सर्वाणि अस्याम् प्रतियोगितायां विशेषत्वं जनयन्ति।
भारतजापानयोः प्रतियोगिता २२ सितम्बरदिनाङ्के भारतीयसमयानुसारं प्रातः ९.३० वादने स्टार स्पोर्ट्स नेटवर्क इत्यस्य माध्यमेन प्रत्यक्षं प्रसारिता भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani