Enter your Email Address to subscribe to our newsletters

छत्तीसगढस्य समृद्धलोकसंस्कृतेः, पारम्परिकतीजोत्सवानां सामाजिकसमरसतायाश्च संवर्धनस्य उद्देश्येन २२ सितम्बर् दिनाङ्के नवरायपुरे भव्यस्य तीजमिलनोत्सवस्य आयोजनं करिष्यते। राजस्वापदाप्रबन्धनपुनर्वासन तथा उच्चशिक्षामन्त्री टङ्करामवर्मणः आतिथ्ये अयं कार्यक्रमः मध्याह्नद्वादशवादनतः सायं चतुर्वादनपर्यन्तम् एम्१२, सेक्टर्२४, अटलनगर, नवरायपुरे आयोजयिष्यते।
कार्यक्रमे छत्तीसगढविधानसभाध्यक्षः डॉ. रमनसिंहः स्वधर्मपत्नी वीणासिंहया सह तथा मुख्यमन्त्री विष्णुदेवसायः स्वधर्मपत्नी कौशल्यादेवीसायया सह सहभागं करिष्यतः। तदतिरिक्तं राज्यस्य मन्त्रिमण्डलस्य अनेकाः सदस्याः, जनप्रतिनिधयः विभिन्नक्षेत्राणां च गणमान्याः व्यक्तयः उत्सवस्य शोभां वर्धिष्यन्ते।
मन्त्री टङ्करामवर्मा उक्तवान् यत् छत्तीसगढस्य पारम्परिकपर्वाणि केवलं धार्मिकाः आयोजनाः न, अपि तु सामाजिकैकतायाः भ्रातृत्वस्य सांस्कृतिकपरिचयस्य च सशक्तानि प्रतीकानि सन्ति। तीजमिलनोत्सवस्य उद्देश्यं छत्तीसगढीयसंस्कृतेः परम्पराणां लोकमूल्यानां च संरक्षणं कुर्वन् नवपीढीं स्वकीयया सांस्कृतिकपरम्परया सह सम्बद्धां कर्तुम् अस्ति।
उत्सवे पारम्परिकानि छत्तीसगढीयव्यञ्जनानि, लोकसांस्कृतिकप्रस्तुतयः तीजापर्वसम्बद्धानां पारम्परिकानुष्ठानानां च विशेषं दर्शनं भविष्यति। तेन नवरायपुरं छत्तीसगढस्य सांस्कृतिकपरम्परायाः विविधैः वर्णैः परिपूर्णं दृश्यते।
Hindusthan Samachar / Dheeraj Maithani