Enter your Email Address to subscribe to our newsletters

बहुउद्देशीये जनशिविरे द्विशताधिकैः जनैः योजनानां लाभः प्राप्तः, अष्टाविंशतिः शिकायतानां श्रवणम्
देहरादूनम्, २१ सितम्बरमासः। देहरादूनजनपदे सेवासङ्कल्पाभियानस्य शुभारम्भः सोमवासरे मसूरीविधानसभाक्षेत्रस्य पुरकुलग्रामे स्थिते दीपकपुण्डीरसामुदायिककेन्द्रे आयोजितेन बहुउद्देशीयेन जनशिविरेण अभवत्। शिविरे द्विशताधिकैः जनैः विभिन्नविभागानां योजनानां सेवाभिः च लाभः प्राप्तः। अपरं च पञ्चाशदधिकशतं जनानां स्वास्थ्यपरीक्षणं कृत्वा चिकित्सकीयपरामर्शः प्रदत्तः।
शिविरस्य शुभारम्भं मन्त्रिमण्डलस्य मन्त्री गणेशजोशी अकरोत्। तेन विभिन्नविभागानां स्टालानां निरीक्षणं कृत्वा जनानां कृते प्रदीयमानानां सेवाणां विषये सूचना प्राप्ता। अस्मिन् अवसरे पञ्च महिलाभ्यः महालक्ष्मीकिट्, द्वाभ्यां किशोरीकिट् तथा द्वाभ्यां शिशुकिट् वितरितानि।
मन्त्रिणा ग्रामीणानां अष्टाविंशत्यधिकाः समस्याः श्रुताः तथा च बहूनां प्रकरणानां स्थले एव निस्तारणं कारितम्। सहस्रधारायाः आपदाप्रभावितक्षेत्रे क्षतिग्रस्तानां पुश्तानां, सुरक्षाभित्तेः, आवासीयभूमिकटानस्य, सिंचाईसम्बद्धानां च समस्याः प्रमुखतया उत्थापिताः। खेरीमानसिंहमार्गे क्षतिग्रस्तपुलिकायाः निर्माणस्य तथा पुरकुलग्रामे बससेवायाः प्रारम्भस्य मागः अपि ग्रामीणैः कृतः। बससेवायाः सञ्चालनसम्बन्धे प्रादेशिकपरिवहनविभागस्य अधिकारिभ्यः आवश्यककार्यवाहीं कर्तुं निर्देशाः प्रदत्ताः।
कृषिविभागस्य सहकारितया उत्कृष्टकार्यं कृतवत्यै सहसपुरविकासखण्डस्य क्यारकुलीभट्टाग्रामस्थितस्य श्रीहरिस्वयंसहायतासमूहस्य सदस्यायै मीनाकोटालायै चतुर्लक्षरुप्यकाणां धनादेशः प्रदत्तः। उद्यानक्षेत्रे उत्कृष्टकार्यं कृतवद्भ्यः पञ्च कृषकेभ्यः प्रमाणपत्राणि प्रदाय सम्मानिताः।
शिविरे समाजकल्याणम्, बालविकासः, कृषिः, मत्स्यपालनम्, स्वास्थ्यं, उद्यानम् इत्यादीनां विभिन्नविभागानां स्टालाः स्थापिताः। अधिकारिभिः जनानां कृते योजनानां पात्रतायाः, आवेदनप्रक्रियायाः तथा उपलब्धसुविधानां च विषये सूचना प्रदत्ता।
मुख्यविकासाधिकारी अभिनवशाहः अवदत् यत् जनपदे सप्तदशसितम्बरतः अष्टादशअक्टोबरपर्यन्तं सेवासङ्कल्पाभियानं सञ्चाल्यते। ‘सेवासेतोः’ अन्तर्गतं ‘जनजनस्य शासनं, जनजनस्य द्वारम्’ इति कार्यक्रमस्य माध्यमेन प्रत्येकस्य विधानसभाक्षेत्रे, विकासखण्डे, तहसीलस्तरे च बहुउद्देशीयशिविराणि आयोजितानि भविष्यन्ति। पुरकुलग्रामे आयोजितं शिविरम् अस्यैव श्रृङ्खलायाः शुभारम्भः अस्ति।
Hindusthan Samachar / Dheeraj Maithani