लघवः घटनाः महत्यो न भवन्तु, जिलाधिकारीपुलिसाधीक्षकौ दृष्टिं स्थापयेताम् : मुख्यमन्त्री योगी।
लघुघटनासु उदासीनता प्रमादश्च न सहिष्येते लखनऊ, २१ सितम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे ‘जनतादर्शने’ विभिन्नेभ्यः जनपदेभ्यः आगतैः जनैः सह मिलित्वा तेषां समस्याः श्रुतवान्। प्रार्थनापत्राणाम् अवलोकनानन्तरं मुख्यमन्त्रिणा उक्तं
जनता दर्शन में मुख्यमंत्री योगी


लघुघटनासु उदासीनता प्रमादश्च न सहिष्येते

लखनऊ, २१ सितम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे ‘जनतादर्शने’ विभिन्नेभ्यः जनपदेभ्यः आगतैः जनैः सह मिलित्वा तेषां समस्याः श्रुतवान्। प्रार्थनापत्राणाम् अवलोकनानन्तरं मुख्यमन्त्रिणा उक्तं यत् समाजे वैमनस्यं प्रसारयितुं प्रयतमानाः जनाः सामान्यघटनानाम् अपि बृहद्रूपं कर्तुम् इच्छन्ति। अतः जनपदेषु प्रत्येकां लघुतमामपि घटनां प्रति जिलाधिकारिणः पुलिसाधीक्षकाः च स्वयमेव दृष्टिं स्थापयेयुः। ते तत्कालं घटनास्थलं गत्वा पीडितानां वचनं शृणुयुः तथा दोषिषु नियमानुसारं कार्यवाहीं कृत्वा प्रकरणानां समाधानं कारयेयुः। तेन चेतावनी प्रदत्ता यत् लघुतमास्वपि घटनासु उदासीनता प्रमादश्च न सहिष्येते।

मुख्यमन्त्री ‘जनतादर्शने’ आसन्देषु उपविष्टान् सर्वान् पीडितान् पृथक् पृथक् मिलित्वा तेषां समस्याः शिकायताश्च श्रुतवान्। मुख्यमन्त्रिणा प्रशासनं, पुलिसविभागं, राजस्वविभागं, विद्युद्विभागं च सम्बद्धानां शिकायतानां प्रार्थनापत्राणि स्वीकृत्य उक्तं यत् सर्वकारः साढेनववर्षेभ्यः विना भेदभावं प्रत्येकस्य पीडितस्य उचितसमस्यायाः समाधानं कारयति। अधिकारिभिः संवेदनशीलतया जनशिकायतानां समयबद्धं निराकरणं सुनिश्चितं करणीयम्। पात्रव्यक्तिभ्यः जनकल्याणकारीयोजनानां लाभः प्रदातव्यः, रोगिणां चिकित्सायाः व्यवस्था करणीया तथा भूमाफियाजनानां दबङ्गजनानां च विरुद्धं कठोरतमा कार्यवाही करणीया।

मुख्यमन्त्रिणः योगी आदित्यनाथस्य समक्षं पुलिसविभागेन राजस्वविभागेन च सम्बद्धाः शिकायताः अधिकाः आसन्। अस्मिन् विषये मुख्यमन्त्री कठोरः अभवत्। तेन उक्तं यत् पुलिसआयुक्तः, अपरमहानिदेशकः, महानिरीक्षकः, उपमहानिरीक्षकः, वरिष्ठपुलिसाधीक्षकस्तरस्य अधिकारिणः नियमितरूपेण जनपदेषु जनसमस्यानां निराकरणं कारयेयुः। यदि अधीनस्थेन केनचित् अधिकारिणा प्रमादस्य शिकायतां प्राप्नुयात् तर्हि तस्य विरुद्धे अपि कार्यवाही करणीया। मुख्यमन्त्रिणा राजस्वसम्बद्धानां विधिव्यवस्थासम्बद्धानां च प्रकरणानां शीघ्रं निराकरणाय निर्देशाः प्रदत्ताः।

‘जनतादर्शने’ मातृया सह आगतेन बालकेन सह मुख्यमन्त्री तस्य कुशलक्षेमं पृष्टवान्। ततः तेन बालकस्य अध्ययनस्य विषये अपि सूचना प्राप्ता। मुख्यमन्त्रिणा तस्य प्रति चॉकलेट् इति खाद्यपदार्थं प्रसारितं तदा बालकेन तत् शीघ्रमेव स्वीकृतम्। अनन्तरं मुख्यमन्त्रिणा चॉकलेट् पुनः याचितं तदा बालकेन तस्य प्रदानं न स्वीकृतम्। अस्मिन् प्रसङ्गे सम्पूर्णं सभागृहं हास्येन मुखरितम् अभवत्। मुख्यमन्त्री बालकस्य सुखदभविष्याय आशीर्वादं दत्त्वा तं मनोयोगेन अध्ययनं कर्तुं प्रेरितवान्।

Hindusthan Samachar / Dheeraj Maithani