Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्रिणा योगिना प्रदेशवासिभ्यः उत्तरप्रदेश-अन्ताराष्ट्रिय-व्यापारप्रदर्शनस्य विषये पत्रं लिखितम्
लखनऊ, २१ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः नोएडानगरे आयोज्यमानस्य अन्ताराष्ट्रियव्यापार-प्रदर्शनस्य विषये प्रदेशवासिभ्यः पत्रं लिखितवान्। उत्तरप्रदेश-अन्ताराष्ट्रिय-व्यापारप्रदर्शनस्य चतुर्थं संस्करणं २५ सेप्टेम्बरमासतः २९ सेप्टेम्बरमासपर्यन्तं ग्रेटरनोएडानगरस्य इण्डिया एक्स्पो सेण्टर एण्ड मार्ट इत्यत्र आयोजयिष्यते।
मुख्यमन्त्रिणा योगी-आदित्यनाथेन लिखितं यत् वर्षे २०२३ तमे आरब्धम् उत्तरप्रदेश-अन्ताराष्ट्रिय-व्यापारप्रदर्शनं प्रदेशस्य उत्पादानां वैश्विकमञ्चं प्रदातुं कृतः एकः महत्त्वपूर्णः प्रयत्नः अस्ति। प्रदेशे द्वि-इञ्जिन-सर्वकारस्य गठनानन्तरं रोजगारस्य सृजनं सर्वप्रथमं प्राधान्यम् अभवत्।
मुख्यमन्त्री योगी उक्तवान् यत् एकजनपद-एक-उत्पादयोजनया लघु-मध्यम-उद्यमैश्च चतुर्कोट्यधिकाः रोजगाराः सृष्टाः। एकजनपद-एक-उत्पादयोजनायाः सफलतया प्रेरितः भूत्वा नूतना ‘ओडीओसी’ इति योजना प्रारब्धा। उत्तरप्रदेशं ‘बीमारू’ प्रदेशस्य प्रतिमातः बहिः निष्कास्य उत्सवप्रदेशरूपेण विकसितं कर्तुं महती समस्या आसीत्, किन्तु एतत् कार्यं सफलतया सम्पन्नम् अभवत्।
मुख्यमन्त्री उक्तवान् यत् निर्यातक्षेत्रे उत्तरप्रदेशस्य सहभागिता द्विलक्षकोटिरूप्यकाणाम् अधिका अस्ति। अधुना उत्तरप्रदेशस्य अर्थव्यवस्थायाः विकासस्य प्रमुखं साधनं निवेशः अस्ति तथा च निवेशस्य लक्ष्यं पञ्चदशलक्षकोटिरूप्यकाणि अतिक्रान्तम् अस्ति। देश-विदेशेभ्यः जनाः उत्तरप्रदेशे निवेशं कर्तुम् इच्छन्ति। प्रदेशे निवेशस्य वर्धनेन रोजगारस्य नूतनाः अवसराः सृज्यन्ते, येन युवानः लाभान्विताः भवन्ति।
सः उक्तवान् यत् उत्तरप्रदेश-अन्ताराष्ट्रिय-व्यापारप्रदर्शनं स्थानीयसामर्थ्यं वैश्विक-विपण्यं प्रति प्रेषयितुं महत्त्वपूर्णं मञ्चम् अस्ति। युवभ्यः, विद्यार्थिभ्यः, नवोद्यमिभ्यः भावी-उद्यमिभ्यश्च व्यापार-प्रदर्शनस्य लाभं स्वीकर्तुं सः आह्वानं कृतवान्। योगिना उक्तं यत् नूतनानां सम्पर्कानां, नूतनानां विपणीनां तथा स्वप्रतिभानुसारम् अवसराणां अन्वेषणं कुर्वन्तु। उद्यमितायाः विषये जागरूकतां वर्धयित्वा स्वपरितः उपलब्धान् अवसरान् चिन्तयितुं समयः अयम् अस्ति।
मुख्यमन्त्री युवभ्यः आह्वानं कृतवान् यत् तेषां प्रयत्नैः स्थानीयसामर्थ्यं वैश्विकविपण्यं यावत् प्राप्नुयात्। विकसितस्य उत्तरप्रदेशस्य स्वप्नं साकारयितुं युवानः सक्रियतया सहभागं कुर्वन्तु।
/ अंशु गुप्ता