Enter your Email Address to subscribe to our newsletters




गोरखपुरम्, 21 सितंबरमासः (हि.स.)।
गोरखपुरस्य अनेकासु विशिष्टतासु मृत्तिकया निर्मितं हस्तशिल्पं ‘टेराकोटा’ इति वैश्विकपटलं पुनरेकवारं स्वकीयां प्रभां प्रसारयितुं सज्जमस्ति। ग्रेटरनोएडास्थिते इण्डियाएक्स्पोसेन्टरएण्डमार्ट इत्यत्र सितम्बरमासस्य पञ्चविंशतितमदिनाङ्कतः नवविंशतितमदिनाङ्कपर्यन्तम् आयोजिते उत्तरप्रदेश-अन्तरराष्ट्रीयव्यापारप्रदर्शनस्य चतुर्थसंस्करणे गोरखपुरस्य टेराकोटा-उत्पादानां चत्वारि विशेषविक्रयकक्षाः स्थापिताः भविष्यन्ति। अस्य अन्तरराष्ट्रीयमञ्चस्य माध्यमेन स्थानीयटेराकोटाशिल्पिभ्यः व्यवसायिभ्यश्च राष्ट्रियान्तरराष्ट्रीयक्रेतृभिः, निर्यातकैः, बृहद्व्यापारिकसंस्थानैश्च प्रत्यक्षसम्पर्कस्य अवसरः प्राप्स्यते।
एकजनपदः एकम् उत्पादः इति योजनायां समावेशानन्तरं अस्य पारम्परिकहस्तशिल्पस्य नूतनं जीवनं प्राप्तम्। तेन शिल्पिनां व्यवसायिनां च जीवने आर्थिकसमृद्धेः सामाजिकसम्मानस्य च नूतनः कालः प्रारब्धः।
उत्तरप्रदेश-अन्तरराष्ट्रीयव्यापारप्रदर्शने अस्मिन् वर्षे गोरखपुरस्य टेराकोटायाः चत्वारः विक्रयकक्षाः प्रमुखाकर्षणस्य केन्द्राणि भविष्यन्ति। व्यापारप्रदर्शनमवलोकयितुम् आगच्छतां विदेशप्रतिनिधीनां बृहद्व्यावसायिकक्रेतॄणां च समक्षं एतेषाम् उत्पादानां प्रत्यक्षप्रचारस्य माध्यमेन निर्यातस्य सम्भावनानां नूतनानि द्वाराणि उद्घाटितुं पूर्णा सम्भावना अस्ति।
उद्योगविभागेन उत्तरप्रदेश-अन्तरराष्ट्रीयव्यापारप्रदर्शने विक्रयकक्षस्थापनाय ये शिल्पिनः व्यवसायिनश्च चयनिताः, तेषु ‘अतरङ्गीकलाकारी’ इति नाम्ना टेराकोटाभूषणानि गृहसज्जासम्बद्धानि उत्पादानि च निर्मात्री दीपिकासिंहः, ‘रीतिकाकृतिकाक्रिएशन’ इत्यस्य सुनीतामौर्या, ‘गिफ्टसिटी’ इत्यस्य कमलेशतिवारी तथा ‘रोशनी एक उम्मीद ट्रस्ट’ इत्यस्य कोमलमद्देशिया च सम्मिलिताः सन्ति।
उद्योगोपायुक्तः उज्ज्वलसिंहः अवदत् यत् अन्तरराष्ट्रीयव्यापारप्रदर्शने स्थापिताः टेराकोटाविक्रयकक्षाः न केवलं गोरखपुरस्य शिल्पिनां परिश्रमस्य कौशलस्य च प्रदर्शनं करिष्यन्ति, अपि तु एतदपि सिद्धं करिष्यन्ति यत् यदि पारम्परिककौशलाय समुचितनीतेः, प्रौद्योगिक्याः, विपण्याश्रयस्य च समर्थनं प्राप्यते तर्हि मृत्तिकाऽपि स्वर्णं उत्पादयितुं शक्नोति। उत्तरप्रदेश-अन्तरराष्ट्रीयव्यापारप्रदर्शने प्राप्तः अवसरः गोरखपुरस्य टेराकोटायाः निर्यातदिशि अपि अत्यन्तं महत्त्वपूर्णः सिद्धः भविष्यति।
योगिसर्वकारेण प्रचारितं टेराकोटाशिल्पं, वर्धितः व्यवसायः
भटहटविकासखण्डस्य औरङ्गाबादग्रामः टेराकोटाशिल्पस्य मूलग्रामः मन्यते। औरङ्गाबादे तत्समीपस्थेषु ग्रामेषु च पीढीभ्यः टेराकोटाशिल्पस्य कार्यं प्रचलति। वर्षे द्विसहस्राष्टादशे मुख्यमन्त्रिणा एकजनपदः एकम् उत्पादः इति योजना प्रारब्धा तथा टेराकोटा गोरखपुरस्य एकजनपदः एकम् उत्पादः इत्यस्य उत्पादरूपेण घोषितम्।
अस्याः योजनायाः अन्तर्गतं शिल्पिभ्यः विद्युत्सञ्चालितचक्रस्य, पगमिलयन्त्रस्य, अनुदानयुक्तऋणस्य च सुविधा प्रदत्ता। तेन एकतः उत्पादनक्षमतायाः वृद्धिः अभवत्, अपरतः योगिसर्वकारेण बृहन्मञ्चेषु टेराकोटाशिल्पस्य व्यापकः प्रचारः कृतः। फलतः अस्य मागे निरन्तरं वृद्धिः अभवत्।
व्यापारे वृद्धेः कारणेन टेराकोटाशिल्पिनां जीवनस्तरे व्यापकः सुधारः अभवत्। कच्चेषु कुटीरेषु कार्यं कुर्वन्तः बहवः शिल्पिनः अधुना पक्ककार्यशालाः पक्कगृहाणि च निर्मितवन्तः। नूतनसन्ततिः या कदाचित् मृत्तिकायाः अस्मात् कार्यात् दूरीभवति स्म, सा अधुना आधुनिकरचनाकौशलं शिक्षित्वा स्वकीये पैतृकव्यवसाये सक्रियतया सहकारं करोति।
---------------
Hindusthan Samachar / Dheeraj Maithani