गोरक्षपीठस्य ब्रह्मलीनयोः महन्तद्वयस्य पुण्यस्मृतौ सप्तदिवसीयः श्रद्धाञ्जलिसमारोहः २४ सेप्टेम्बरतः, सङ्गीतमयश्रीमद्भागवत-कथाज्ञानयज्ञेन सह विविधानि आयोजनानि
– वृन्दावनस्य प्रख्यातकथावाचकः मलूकपीठाधीश्वरः राजेन्द्रदासजीमहाराजः कथां श्रावयिष्यति गोरखपुरम्, २१ सेप्टेम्बरमासः (हि.स.)। श्रीगोरक्षपीठस्य गौरवशालिनीं आध्या-त्मिकधार्मिकपरम्परां नूतनां दिशं प्रदर्शितवन्तौ महान् देशभक्तः, अपराजितः धर्मयोद्धा च ब
श्रीगोरखनाथ मंदिर में ब्रह्मलीन महंत दिग्विजयनाथ जी महाराज एवं महंत अवेद्यनाथ जी महाराज की पुण्यतिथि पर आयोजित होने वाले साप्ताहिक श्रद्धांजलि समारोह की जानकारी देते प्रधान पुजारी योगी कमलनाथ।


श्रीगोरखनाथ मंदिर में ब्रह्मलीन महंत दिग्विजयनाथ जी महाराज एवं महंत अवेद्यनाथ जी महाराज की पुण्यतिथि पर आयोजित होने वाले साप्ताहिक श्रद्धांजलि समारोह की जानकारी देते प्रधान पुजारी योगी कमलनाथ।


– वृन्दावनस्य प्रख्यातकथावाचकः मलूकपीठाधीश्वरः राजेन्द्रदासजीमहाराजः कथां श्रावयिष्यति

गोरखपुरम्, २१ सेप्टेम्बरमासः (हि.स.)। श्रीगोरक्षपीठस्य गौरवशालिनीं आध्या-त्मिकधार्मिकपरम्परां नूतनां दिशं प्रदर्शितवन्तौ महान् देशभक्तः, अपराजितः धर्मयोद्धा च ब्रह्मलीनः महन्तदिग्विजय-नाथमहाराजः तथा राष्ट्रसन्तः ब्रह्मलीनः महन्तअवेद्यनाथजीमहाराजः अद्यापि अस्माकं प्रेरणास्रोतः स्तः। उभौ महन्तौ राष्ट्रवादीचरित्रेण आध्यात्मिकचेतनया च प्रदीप्तौ तादृशौ सन्तौ आस्तां यौ अतीतं वर्तमानम् अनागतं च प्रत्यक्षवत् पश्यतः स्म। ब्रह्मलीनौ महन्तौ हिन्दूसमाजस्य रक्षकौ सांस्कृतिकराष्ट्रवादस्य च प्रबलसमर्थकौ आस्ताम्। तयोः स्मृतयः अस्मभ्यं नूतनां ऊर्जां प्रयच्छन्ति।

अस्यैव क्रमस्य अन्तर्गतं विगतवर्षेष्विव अस्मिन्नपि वर्षे युगपुरुषस्य ब्रह्मलीनस्य महन्तदिग्विजयनाथजीमहाराजस्य सप्तपञ्चाशत्तम्याः तथा राष्ट्रसन्तस्य ब्रह्मलीनस्य महन्त-अवेद्यनाथमहाराजस्य द्वादशम्याः पुण्यतिथेः उपलक्ष्ये तयोः पावनस्मृतौ सप्तदिवसीयः श्रद्धाञ्जलि-समारोहः २४ सेप्टेम्बरतः ३० सेप्टेम्बर २०२६ पर्यन्तं श्रीगोरक्षनाथमन्दिरे आयोजयिष्यते।

साप्ताहिकश्रद्धाञ्जलिसमारोहस्य अन्तर्गतमेव २३ सेप्टेम्बरतः साप्ताहिकः ‘सङ्गीतमयः श्रीमद्भागवतकथाज्ञानयज्ञः’ अपि आयोजयिष्यते। श्रीरेवासाधाम-वृन्दावनतः समागतः श्रीमद्भगवद्गुरु-द्वाराचार्यः अग्रपीठाधीश्वरः मलूकपीठा-धीश्वरश्च स्वामी श्रीराजेन्द्रदासदेवाचार्य-महाराजः कथामृतं श्रावयिष्यति।

इयं सूचना श्रीगोरखनाथमन्दिरस्य प्रधानपूजकेन योगीकमलनाथेन सोम-वासरे दत्ता। सः अवदत् यत् युगपुरुषः ब्रह्मलीनः महन्तदिग्विजयनाथमहाराजः राष्ट्रसन्तः ब्रह्मलीनः महन्त-अवेद्यनाथ-महाराजश्च धर्मे, संस्कृतौ, शिक्षायां, समाजे राष्ट्रे च प्रायः सर्वेषु महत्त्वपूर्णेषु क्षेत्रेषु बहुआयामिना लोकसङ्ग्राहकेण व्यक्तित्वेन प्रभावपूर्णां उपस्थितिं समर्पितवन्तौ। अनेकासु महत्त्वपूर्णासु धार्मिक-आध्यात्मिकासु राष्ट्रियविषयकीषु च समस्यासु मार्गात् संसदं यावत् उभयोः महन्तयोः ओजस्विनी वाणी निरन्तरं गुञ्जति स्म। १९२० तमवर्षात् एकविंशतितमशताब्द्याः प्रथमदशकपर्यन्तं देशस्य कापि राजनैतिकी, सामाजिकः, धार्मिकः वा समस्या तादृशी नासीत्, यस्यां क्रमेण उभयोः ब्रह्मलीनयोः महाराजयोः प्रभावपूर्णा उपस्थितिः न अभवत्। देशे तौ आध्यात्मिक-सामाजिकपुनर्जागरणस्य अग्रदूतौ इति प्रतिष्ठितौ, पूर्वीउत्तरप्रदेशे च शैक्षिकपुनर्जागरणस्य अग्रदूतौ अभवताम्।

योगीकमलनाथ: अवदत् यत् युगपुरुषस्य ब्रह्मलीनस्य महन्तदिग्विजयनाथ-महाराजस्य राष्ट्रसन्तस्य ब्रह्मलीनस्य महन्त-अवेद्यनाथमहाराजस्य च कृतित्वम् अद्यापि प्रकाशस्तम्भवत् राष्ट्रजीवनस्य पथि अस्माकं मार्गदर्शनाय विद्यमानम् अस्ति। ब्रह्मलीनौ महन्तौ महाराजौ भारतस्य राष्ट्रियजीवनस्य मुख्यधारायाः प्रतिनिधित्वां कुर्वत्या हिन्दूजीवनपद्धत्या अनुप्रेरितं समाजं समरस-सुसङ्गठितं सुदृढं च समाजरूपेण द्रष्टुम् इच्छतः स्म। तयोः स्वप्नानां समर्थभारतस्य पुनर्निर्माणाय हिन्दूसमाजस्य पुनर्जा-गरणाय च तयोः पुण्यतिथेः उपलक्ष्ये प्रतिवर्षम् आयोज्यमानः समारोहः सामान्यजनमानसं राष्ट्रिय-सामाजिक-विषयेषु प्रेरयितुं माध्यमं भवति। सः अवदत् यत् अस्मिन् वर्षे २४ सेप्टेम्बरतः ३० सेप्टेम्बरपर्यन्तं सप्तदिवसीयः श्रद्धाञ्जलिसमारोहः आयोज्यते। अस्मिन् देशस्य विभिन्नेभ्यः भागेभ्यः अनेके सन्ताः, महात्मानः, धर्माचार्याः, विद्वांसः, समाज-सेविनश्च भागं ग्रहीष्यन्ति।

साप्ताहिकश्रद्धाञ्जलिसमारोहस्य अन्तर्गतं समसामयिकविषयेषु सम्मेलनं २४ सेप्टेम्बरतः प्रारप्स्यते। २४ सेप्टेम्बरे उद्घाटनसमारोहे ‘भारतीयज्ञानपरम्परायाः वर्तमानपरिप्रेक्ष्यम्’ इति विषये सम्मेलनम्, २५ सेप्टेम्बरे ‘नशा नाशस्य कारणम् अस्ति’, २६ सेप्टेम्बरमासे ‘भारतं लोक-तन्त्रस्य जननी अस्ति’, २७ सेप्टेम्बरे ‘संस्कृतं भारतीयसंस्कृतिश्च’, २८ सेप्टेम्बरमासे ‘भारतीयसंस्कृतिः गोसेवा च’ इति विषयेषु सम्मेलनानि सम्पन्नानि भविष्यन्ति। २९ सेप्टेम्बरे युगपुरुषस्य महन्तदिग्विजयनाथमहाराजस्य तथा ३० सेप्टेम्बरमासे राष्ट्रसन्तस्य महन्त-अवेद्यनाथमहाराजस्य श्रद्धाञ्जलिसभा आयोजयिष्यते। २९-३० सेप्टेम्बरयोः अखण्डमानसपाठः भण्डारश्च भविष्यति।

श्रद्धाञ्जलिसमारोहे वृन्दावनतः कथावाचकः स्वामी श्रीराजेन्द्रदासदेवा-चार्यमहाराजः, रोहतक-हरियाणातः महन्तबालकनाथः, जूनागढ-गुजराततः समागतः महन्तशेरनाथः, नैमिषारण्यतः समागतः स्वामी विद्याचैतन्यः, गाजिया-बादतः महन्तनारायणगिरिः, वाराणसीतः डॉ. रामकमलदासवेदान्ती, हरिद्वारतः समागतः महन्तचेताईनाथः, कच्छ-गुजराततः महन्तदेवनाथः, वाराणसीतः समागतः महन्तसन्तोषदासः, गुजराततः महन्तकमलनाथः, प्रयागराजतः जगद्गुरुः रामानुजाचार्यः स्वामी विश्वेशप्रपन्नाचार्य-महाराजः, अयोध्यातः महन्तराम-दिनेशाचार्यः, अयोध्यातः स्वामी श्रीधराचार्यजी, महन्तराघवाचार्यः, महन्त-रामलखनदासः, महन्तधर्मदासः, ब्रह्म-चारीदासलाल:, महन्तराघवेशदासः, महन्तराजूदासः, देवीपाटनतः महन्त-मिथिलेशनाथः, पीरशेरनाथः, योगी-लालनाथः, महन्तनरसिंहदासः, महन्त-शिवनाथः, योगीजिताईनाथः, जगद्गुरुः स्वामीघनश्यामाचार्यः, महन्तगङ्गादासश्च सहिताः देशभरस्य प्रतिष्ठिताः धर्माचार्याः, साधवः सन्तश्च सम्मिलिताः भविष्यन्ति।

तदनन्तरं विभिन्नतिथिषु आयोज्यमानेषु सम्मेलनेषु ख्यातिप्राप्ताः वक्तारः डॉ. वी. रामानाथनः (आईआईटी, बीएचयू, वाराणसी), प्रो. विनोदसोलङ्की (प्रान्त-प्रशिक्षणप्रमुखः, स्वामीविवेकानन्दकेन्द्रम्, उत्तरप्रदेशः), प्रो. सञ्जीवकुमारशर्मा (पूर्वकुलपतिः, महात्मागान्धी-केन्द्रीयविश्वविद्यालयः, मोतीहारी, बिहारः), प्रो. मुरलीमनोहरपाठकः, कुलपतिः (श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयः, नवदिल्ली), श्यामबिहारीगुप्तः (अध्यक्षः, गोसेवाआयोगः, उत्तरप्रदेशः), जसवन्तसिंहः उर्फ अतुलसिंहः (उपाध्यक्षः, गोसेवाआयोगः, उत्तरप्रदेशः), प्रो. ईश्वरशरणविश्वकर्मा (पूर्वाध्यक्षः, उच्च-शिक्षाआयोगः, प्रयागराजः), प्रो. शिवशरणदासः (भगवतीनिवासः, आर्य-नगरम्, गोरखपुरम्), डॉ. पृथ्वीनाथसिंहः (वरिष्ठनिवासीचिकित्सकः, शासकीय-चिकित्सामहाविद्यालयः, अम्बेडकर-नगरम्), प्रो. योगेन्द्रप्रतापसिंहः, निदेशकः (गोविन्दबल्लभपन्तसामाजिकविज्ञानसंस्थानम्, प्रयागराजः), प्रो. सदानन्द-प्रसादगुप्तः (पूर्वकार्य-वाहकाध्यक्षः, उत्तरप्रदेशहिन्दीसंस्थानम्, लखनऊ), लालमणित्रिपाठी (गीताप्रेस्, गोरखपुरम्) च विशदं चर्चां करिष्यन्ति।

योगीकमलनाथजी अवदत् यत् श्रीमद्भागवतकथां श्रोतुम् इच्छतां श्रद्धालूनां कृते श्रीगोरखनाथमन्दिरस्य पक्षतः प्रतिदिनं निःशुल्का बससेवा (आनयन-नयनार्थम्) विभिन्नस्थानेभ्यः अपराह्णे २.०० वादनात् पूर्वनिर्धारितमार्गेषु उपलब्धा भविष्यति। ये श्रद्धालवः निःशुल्कबससेवायाः सुविधां स्वीकर्तुम् इच्छन्ति, ते समये उपस्थिताः भूत्वा सेवां स्वीकर्तुं शक्नुवन्ति।

निर्धारितमार्गाः सन्ति—महुआतर-उपरिसेतुः-महेसरा-मोहारीपुर-बरगदवा-राजेन्द्रनगरमार्गेण श्रीगोरक्षनाथमन्दिरम्; गीतागार्डन-असुरनचौक-एच.एन.-सिंहचतुष्पथ-राप्तीनगरतः हाइडिल-मार्गेण-क्रीडामहाविद्यालय-जङ्गलन-खाओपरिसेतु-राणी-सतीमन्दिर-राम-नगरचतुष्पथमार्गेण श्रीगोरक्षनाथमन्दिरम्; मुन्शी-प्रेमचन्दपार्क-टीडीएमविद्यालय-अलहदादपुरचतुष्पथ-बेतियाहाताचतुष्पथ-गोलघर-कालीमन्दिर-धर्मशालासेतु-तरङ्ग-समागमस्थानमार्गेण श्रीगोरक्ष-नाथमन्दिरम्; तथा अभियान्त्रिकी-महाविद्यालय-गिरधरगञ्ज-छात्र-सङ्घचतुष्पथ-विश्वविद्यालयचतुष्पथ-कार्मेलविद्यालय-यातायातत्रिचतुष्पथ-धर्मशाला-तरङ्ग-समागमस्थानमार्गेण श्रीगोरक्षनाथमन्दिरम्।

Hindusthan Samachar / Divya Ranjan