Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, २१ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य पक्षतः ‘सेवा-सङ्कल्प-अभियानस्य’ अन्तर्गतं जनपदे ‘नमोसेवा—अनुक्तकथाः’ इति कार्यक्रमस्य आयोजनं करिष्यते। भाजपायाः जनपदाध्यक्षस्य लालबहादुर-सरोजस्य नेतृत्वे २१ सेप्टेम्बरमासतः १७ अक्तूबर-मासपर्यन्तं प्रस्तावितेषु नाट्यप्रदर्शनेषु प्रधानमन्त्रिणः नरेन्द्र-मोदिनः सार्व-जनिकजीवनस्य पञ्चविंशति-वर्षीयायात्रा रङ्गमञ्चस्य माध्यमेन प्रस्तोष्यते।
भाजपायाः जनपदाध्यक्षेन कथितं यत् नाट्यप्रस्तुतौ गुजरातस्य मुख्यमन्त्रित्व-कालात् आरभ्य प्रधानमन्त्रीरूपेण तस्य राजनैतिकयात्रायाः सम्बद्धाः विभिन्नाः प्रसङ्गाः संवादैः, अभिनयेन, सङ्गीतेन च रङ्गमञ्चे प्रस्तुताः भविष्यन्ति। कार्यक्रमस्य माध्यमेन सेवायाः, जनकल्याणस्य, सुशासनस्य च सम्बद्धाः विषयाः अपि प्रस्तोतुं योजना अस्ति।
अभियानस्य अन्तर्गतं प्रदेशस्य प्रत्येकं विधानसभाक्षेत्रे त्रिंशत् नाट्यप्रदर्शनानि आयोजयितुं लक्ष्यं निर्धारितम् अस्ति। एतदर्थं विद्यालयाः, महाविद्यालयाः, पञ्चायत्-भवनानि, सामुदायिककेन्द्राणि अन्ये च सार्वजनिकस्थानानि सम्भावित-कार्यक्रमस्थलरूपेण निर्धारितानि सन्ति।
कार्यक्रमस्य सिद्धतां प्रति भाजपायाः पदाधिकारिणां कार्यकर्तॄणां च उपस्थितौ सूचना प्रदत्ता। अस्मिन् अवसरे जनपद-उपाध्यक्षौ बालेंदुमणित्रिपाठी, हेमन्तः, चिन्तामणिमौर्यः, उदयभानतिवारी, जनपदमहामन्त्री डॉ. सी.एल. बिन्दः, स्वामीनाथसिंहः, वीरेन्द्रकुमारकोलः, रोहितत्रिपाठी, पूनमचौरसिया, जनपद-माध्यमप्रभारी पण्डितभावेशशर्मा, अमित-कुमारसिंहः, आनन्दमैनी, रामशिरोमणि-मौर्यः, मनोजदूबे, विजयशक्तिदूबे, शुभम्जायसवालः इत्यादयः अन्ये च कार्यकर्तारः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan